पावागढपर्वतः ( /ˈpɑːvɑːɡədhhəpərvətəh/) गुजरातराज्ये मध्यभागे स्थितस्य पञ्चमहलमण्डलस्य हालोल इत्यस्मात् उपमण्डलात् किञ्चद्दूरे एव स्थितोSस्ति । पावागढपर्वतस्य तले स्थितः चाम्पानेरनामकः ग्रामः गुजरातराज्यस्य राजधानी आसीत् । अस्मिन् पर्वतशिखरे स्थितं महाकालीमन्दिरं शक्तिपीठमिव विराजते । तद् गुजरातराज्यस्य पवित्रं यात्राधाम मन्यते ।

पावागढपर्वतः
पावागढपर्वतस्य शिखरभागः
उत्तुङ्गता ८०० m (२,६२५ ft)
स्थानम्
स्थानम् पञ्चमहलमण्डलम्, गुजरातराज्यम्
श्रेणी अरावळीसमूहः
Geology
Type पर्वतः
Last eruption 500 दशलक्षवर्षेभ्यः पूर्वम्
आरोहणम्
सुलभतमः मार्गः रज्जुसेतुः (Ropeway)

पावागढपर्वतः वडोदरा इत्यस्मात् महानगरात् ५० कि.मी. दूरे अस्ति । चाम्पानेर इत्यस्मात् ग्रामात् ५ कि.मी. दूरे माञ्चि इति ग्रामः अस्ति । तत्रैव पावागढपर्वताय सोपोनमार्गः, रज्जुमार्गश्च वर्तेते । पर्वतारोहणाय प्रस्तरनिर्मितानि १,५०० सोपानानि सन्ति । एकघण्टायां मन्दिरं प्राप्तुं शक्यते । रज्जुमार्गेण केवलं ५ वा ६ निमेषेषु शिखरं प्राप्तुं शक्यते । केचन साहसिकाः प्रकृतिप्रेमिणश्च चाम्पानेर इत्यस्मात् ग्रामात् एव वनमार्गेण शिखरपर्यन्तं गच्छन्ति । अस्मिन् मार्गे कृता यात्रा चिरकालं यावत् मनसि तिष्ठति इति ते पूर्वपथगामिनः वदन्ति । चैत्रे, आश्विने च मासे अत्र मातृभक्तानां गमनम् अधिकं भवति ।

पर्वतारोहणमार्गः
"https://sa.wikipedia.org/w/index.php?title=पावागढपर्वतः&oldid=326398" इत्यस्माद् प्रतिप्राप्तम्