इदं पिप्पलीसस्यं भारते वर्धमानः कश्चन सस्यविशेषः । वस्तुतः इयं काचित् लता । तस्मात् कारणात् आधारम् अवलब्य एव वर्धते । अस्याः पिप्पलीलतायाः पर्णानि २ – ३ अङ्गुलं यावत् विशालानि दीर्घाणि च भवन्ति । अस्याः फलानि लघ्वाकारकाणि, ०.५ – १ अङ्गुलं यावत् व्यासयुक्तानि च भवन्ति । तानि वर्धनस्य अनन्तरं (पक्वानन्तरं) कृष्णवर्णीयानि भवन्ति ।

Long pepper
पिप्पल्याः पर्णानि फलानि च
पिप्पल्याः पर्णानि फलानि च
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Magnoliids
गणः Piperales
कुलम् Piperaceae
वंशः Piper
जातिः P. longum
द्विपदनाम
Piper longum
L.

इतरभाषाभिः अस्य पिप्पलीसस्यस्य नामानि सम्पादयतु

इदं पिप्पलीसस्यम् आङ्ग्लभाषया “लाङ्ग् पेप्पर्” इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति B. N. Piper Longum अथवा N. O. Piperaceve इति । हिन्दीभाषया इदं पिप्पलीसस्यं “पिप्पल्” इति, तेलुगुभाषया “पिप्पळ्ळु” इति, तमिळ्भाषायां “पिप्पली” इति, कन्नडभाषया “हिप्पलि” इति च उच्यते ।

आयुर्वेदस्य अनुसारम् अस्य पिप्पलीसस्यस्य प्रयोजनानि सम्पादयतु

अस्य पिप्पलीसस्यस्य रसः कटुः । अनुरसः मधुरः च । इदं स्निग्धं, तीक्ष्णंचापि । इदम् अनुष्णवीर्ययुक्तं, विपाके मधुरं भवति ।

१. पिप्पलीसेवनेन अग्निवृद्धिः भवति ।
२. अस्य रसायनं यकृत्-विकारान्, क्रिमिबाधां च निवारयति ।
३. इदं रक्तवर्धकम् अपि । रक्तहीनतया पीड्यमानानाम् उत्तमम् ।
४. कासेन, श्वासरोगेन पीड्यमानाः अस्य उपयोगं न कुर्युः ।
५. इदं मूत्रं वर्धयति, ज्वरं निवारयति चापि ।
६. इदं गर्भाशयं सङ्कोचयति अपि । अतः प्रसवानन्तरं सेवनं हितकरं भवति ।
७. अस्य स्वरसः १ – २ ग्रां, चूर्णं ५ ग्रां यावत् सेवितुं शक्यते ।
८. अनेन निर्मितानि “त्रिकटुचूर्णम्”, "पञ्चकोलचूर्णम्”, "सीतोपलादिचूर्णम्” चापि औषधानि आयुर्वेदस्य आपणेषु उपलभ्यन्ते ।
 
शुष्काणि पिप्पलीगुच्छानि
"https://sa.wikipedia.org/w/index.php?title=पिप्पली&oldid=395850" इत्यस्माद् प्रतिप्राप्तम्