पुष्यः

हैन्दव खगोलशास्त्रे चन्द्रस्य अष्टम: स्थान:
(पुष्य इत्यस्मात् पुनर्निर्दिष्टम्)

रविमार्गे दृश्यमानेषु २७ प्रमुखनक्षत्रसमूहेषु अन्यतमं वर्तते पुष्यनक्षत्रम् । प्रतिदिनं चन्द्रः यस्मिन् नक्षत्रे दृश्यते तत् नक्षत्रं दिननक्षत्रम् इति उच्यते । शिशोः जननावसरे चन्द्रः यत्र भवति तत् तस्य जन्मनक्षत्रम् इति कथ्यते । हिन्दुज्योतिष्शास्त्रस्य अनुगुणम् पुष्यनक्षत्रं भवति अष्टमं नक्षत्रम् ।
आकाशः ३६० डिग्रियुक्तः इति भाव्यते चेत् सः सप्तविंशतिधा विभज्यते चेत् एकैकः भागः १३.२० डिग्रियुक्तः भवति । एकैकम् अपि क्षेत्रं चतुर्धा यदि विभज्येत तर्हि १०८ भागाः भवन्ति । एकैकोपि भागः ३.२० डिग्रियुक्तः भवति । तन्नाम नक्षत्रस्य प्रत्येकभागः ३.२० डिग्रियुक्तः भवति । एकस्य नक्षत्रस्य १३.२० डिग्रिपरिमितभागः । एकस्य राशेः ३० डिग्रिभागः । १२ राशीनां ३६० डिग्रिपरिमितः भागः भवति ।

पुष्यनक्षत्रम्

आकृतिः सम्पादयतु

सरला पुष्यमी त्रीणि - सरलाकृतौ विद्यमानानि त्रीणि नक्षत्राणि ।

सम्बद्धानि अक्षराणि सम्पादयतु

हू हे हो डा - पुष्यनक्षत्रसम्बद्धानि अक्षराणि ।

अधिदैवम्, वैदिकविवेचनम् सम्पादयतु

बृहस्पतिः प्रथमं जायमानस्तिष्यं नक्षत्रमभिसम्बभूव ।
श्रेष्ठो देवानां पृतनासु जिष्णुः । दिशः सर्वा अभयं नोऽस्तु ।
तिष्यो पुरस्ताद्रुत मध्यतो नः । बृहस्पतिर्नः परिपातु पश्चात् ।
बाधेतां द्वेषोऽभयं कृणतुं सवीर्यस्य पतयः स्याम ॥

पुस्यनक्षत्रस्य अधिपतिः बृहस्पतिः । पोषणकर्तुः पुष्यनक्षत्रम् उच्यते । पुनर्वसौ नूतनस्य अन्नस्य उत्पत्तिः भवति । ततः प्राणिनः पोषिताः भवन्ति । अतः पुनर्वसोः अनन्तरं पुष्यनक्षत्रं भवति । तैत्तिरीयब्राह्मणस्य कथनानुसारं बृहस्पतिः पुष्यसमीपम् आगतः । अयं देवेषु श्रेष्ठः विजयी च । अस्माकं कृते सर्वाः दिशाः भयरहिताः करिष्यति । बृहस्पतिः पुष्यनक्षत्रञ्च सर्वासु दिक्षु अस्मान् रक्षति । अस्माकं शत्रुबाधकः अस्ति । अस्मासु बलं वर्धयति ।

आश्रिताः पदार्थाः सम्पादयतु

पुष्ये यवगोधूमाः शालीक्षुवनानि मन्त्रिणो भूपाः ।
सलिलोपजीविनः साधवश्च यज्ञेष्टिसक्ताश्च ॥

यवाः । गोधूमाः । शालयो धान्यानि । इक्षवः । वनान्यरण्यानि । मन्त्रिणः सचिवाः । भूपा राजानः । सलिलं जलं तेनोपजीवन्ति तेनैवार्जनं ये कुर्वन्ति धीवरप्रायाः । साधवश्च सज्जनाः । यज्ञसक्ता यागेष्वनुरक्ताः । इष्टयः पुत्रकाम्यादयः, तासु च ये सक्ता निरताः । एते सर्व एव पुष्ये ।

स्वरूपम् सम्पादयतु

स्थिरचरशान्तिकपौष्टिकभूषणशिल्पव्रतोत्सवाद्यखिलम् ।
वनिताकरसङ्ग्रहणं त्यक्त्वान्यत्कर्म सिद्ध्यते पुष्ये ॥

पुष्यनक्षत्रे स्थिरकर्म, चलकर्म, शान्ति-पौष्टिककर्म, आभूषणम्, शिल्पकर्म, व्रतम्, उत्सवः इत्यादीनि कार्याणि कर्तुं शक्यन्ते । विवाहकार्यं विना अन्यानि सर्व्वाणि कार्याणि सिद्धानि भवन्ति ।

लघुसंज्ञकनक्षत्राणि सम्पादयतु

लघु हस्ताश्विनपुष्याः पण्यरतिज्ञानभूषणकलासु । शिल्पौषधयानादिषु सिद्धिकराणि प्रदिष्टानि ॥ अथ क्षिप्राणि नक्षत्राणि तैश्च यानि कर्माणि क्रियन्ते तानि चाह - हस्तः प्रसिद्धः । आश्विनमश्विनी । पुष्यस्तिष्यः । केचिदभिजिदत्रेच्छन्ति । एतन्नक्षत्रत्रयं चतुष्टयं वा लघु क्षिप्रमित्यर्थः । एतानि पण्ये विक्रये । रतौ पुंरतौ । ज्ञाने शास्त्रारम्भे । भूषणे अलङ्करणे । कलासु चित्रगीतवाद्यनृत्यादिषु । शिल्पकर्मणि तक्षककर्मलोहकारकर्मादौ । औषधे द्रव्यप्रयोगे । याने यात्रायाम् । आदिग्रहणादृणग्रहणे धनप्रयोगे च । एतेषु कार्येषु सिद्धिकराण्युक्तानि ।


पश्य सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=पुष्यः&oldid=395573" इत्यस्माद् प्रतिप्राप्तम्