पृथुकाः
एतत् भरतस्य भोजनम्
अयं पृथुकः अपि कश्चन सस्यजन्यः आहारपदार्थः । अयं पृथुकः आङ्लभाषायां Flattened rice इति उच्यते । पृथुकः व्रीह्या एव निर्मीयते । प्रायः भारते सर्वत्र पृथुकस्य उपयोगः क्रियते । व्रीह्याः भेदानिगुणं पृथुकाः अपि बहुविधाः भवन्ति । किन्तु सर्वेभ्यः व्रीहिभ्यः अपि पृथुकस्य निर्माणं कर्तुं न श्क्यते । दक्षिणभारते तु पृथुकः मह्ता प्रमाणेन उपयुज्यते । पृथुकः प्रातःकालस्य उपाहारत्वेन अपि उपयुज्यते, सायङ्कालस्य अल्पाहारत्वेन अपि उपयुज्तये । उपवासावसरे भोजनस्य स्थानं बहुधा पृथुकः एव अलङ्करोति । पृथुकः देवाय नैवेद्यरूपेण अपि समर्प्यते । भगवतः श्रीकृष्णस्य परमप्रियः अयं पृथुकः । सुधामा कृष्णस्य मेलनार्थं गमनावसरे पृथुकम् एव नीतवान् आसीत् इति । एतादृशः पृथुकः सदा हस्तलभ्यः एव ।
आयुर्वेदस्य अनुसारम् अस्य पृथुकस्य स्वभावः
सम्पादयतुअयं पृथुकः पचनार्थं जडः ।
- “पृथुकाः गुरवो बल्याः कफविष्टम्भकारिणः ॥“ (अष्टाङ्गहृदयम्)
- १. पृथुकः शरीरस्य बलवर्धकः, शरीरे कफवर्धकः च ।
- २. अयं पृथुकः विष्टम्भी । तन्नाम मलस्य अवरोधकः ।
- ३. पृथुकः दध्ना सह खाद्यते चेत् पचनार्थम् अत्यन्तं जडः । अतः अत्यन्तं बुभुक्षायुक्ताः, निरन्तरं दैहिकं कार्यं कर्तारः च अधिकतया उपयोक्तुम् अर्हन्ति ।
- ४. अयं पृथुकः वृष्टिकाले सर्वेषाम् अपि वर्ज्यः एव ।
- ५. पृथुके व्याघरणं योजयित्वा खादनेन वातस्य वर्धनं भवति ।