पूर्वं शूर्पस्य रन्धाणि निमीलितुं कागदस्य (Paper) तथा मेथिकायाः पेषणं कृत्वा शूर्पं लिम्पति स्म । अतः पेषणयन्त्रस्य आवश्यकता आसीत् । इतःपूर्वं पेषणकार्यार्थं पेषणशिलायाः तथा उलूखलस्य च उपयोगः क्रियते स्म । इदानीं तु विद्युच्चालितपेषणयन्त्रं आपणे प्राप्यते । विद्युत्पेषणयन्त्रे प्रमुखतः भागत्रयं वर्तते ।

  • (१) विद्युतचालनयन्त्रम्
  • (२) गर्तवती शिला
  • (३) पेषणशिला
विद्युत्च्चालितपेषणयन्त्रम्
साम्प्रदायिकपेषणशिला

अस्य यन्त्रस्य अधोभागे विद्युत्चालनयन्त्रं वर्तते । यन्त्रस्य उपरि गर्तवती शिला वर्तते । सा शिला अयस्किट्टनिवारकसमर्थेन (Rustless) लेपनेन आवृतं भवति । पेषणशिलायाः उपरि काष्ठदण्डं संयोज्य शृङ्खलया स्तम्भस्य सम्पर्कः कृतः वर्तते । अधोभागे काष्ठदण्डस्य चक्रेण सम्पर्कः कल्पितः भवति । यदा विद्युत्चालनयन्त्रे विद्युत्प्रवहति तदा पेषणशिलायाः अधः स्थितं चक्रं भ्रमति । पेषणशिलया सह गर्तवती शिला अपि भ्रमति । गर्तस्य उपरि लोहसाधनं वर्तते । इदं साधनं बहिरागतं पिष्टं पुनरपि कूपे प्रक्षिपति । एवम् आर्द्र- पदार्थानां पेषणं करोति । अधुना अपरमेकं यन्त्रं आपणे प्राप्यते । अस्मिन् यन्त्रे गर्तयोः मध्ये द्वे पेषणशिले चक्राकाररूपेण भवतः । एतयोः साहाय्येन आर्द्रपदार्थानां पेषणं कर्तुं शक्यते । यदा अस्मिन् यन्त्रे विद्युत्प्रवहति तदा चक्राकारिका एका शिला प्रदक्षिणरूपेण अपरा अप्रदिक्षणारूपेण परिभ्रमतः । बहिरागतं पिष्ठं पुनरपि द्वयोः शिलयोः मध्ये स्थापनार्थम् एकं प्लास्टिक् (Plastic) साधनं वर्तते । पेषशणकार्यानन्तरं पात्रमेव अवनमय्य त्वा पदार्थानां पिष्टं बहिः सङ्ग्रहितुं शक्यते । अस्मिन् यन्त्रे स्थापिते द्वे शिले नाति भारवत्यौ । अनायासेन उत्थापयितुं शक्यते ।

"https://sa.wikipedia.org/w/index.php?title=पेषणयन्त्रम्&oldid=370410" इत्यस्माद् प्रतिप्राप्तम्