प्रक्षेपणक्रीडा
ऐतिहासिकी पृष्ठभूमिः
सम्पादयतु"यथा धावनं कूर्दनं च शिक्षणं विनैव पशुपक्षिणामिव मानवः सहजतया प्राप्तवान् तथैव कस्यापि वस्तुनो निकटे दूरे वा, सकामं निष्कामं वा, सप्रयत्नं निष्प्रयत्नं वा प्रक्षेपणस्य प्रवृत्तिरपि तस्मिन् स्वयमेव समागते" ति समामनन्ति सुधियः । केचनैवमपि कथयन्ति यत् "प्राचीनकाले वन्यवृत्तिमाचरन्तो जनास्तक्रात्मनो रक्षार्थमाततायिनां हिंस्राणां जीवानां पराकरणाय तथा स्वेषामाहाराय वृक्षेषूर्ध्वं संलग्नानां फलानामुपलब्धये च पाषाणखण्डादीनां प्रक्षेपणमेव स्वीयं रक्षाकरं भोज्यप्रदायकं च साधनं मन्वते स्मेति ।"
शनैः शनैः क्रीडा-विनोद-प्रवृत्तावपि प्रक्षेपणस्य ‘कला’रूपेण समादरः सञ्जातः । आदान-प्रदान-विधिना सह ग्रहण-प्रक्षेपण-विधेरपि विकासं वितन्वद्भि-र्विद्वद्भिः प्रक्षेपण-कलायां वस्तु विशेषस्य प्रक्षेपणाय नियमा निर्धारिताः ।‘भारवद्वस्तुनः प्रक्षेपणेन प्रक्षेप्तुः शौर्यं शक्तिः सावधानता नैपुण्यं च वर्धते’ इति विचिन्त्य चास्या कलायाः स्वतन्त्रं स्थानमपि तत्र निर्मितम् । प्रकार- वैशिष्ट्यदिशा ‘१-लोहपिण्ड- २-लोहसूत्रपिण्ड ३-लोहचक्रक ४-भल्लादि’-प्रक्षेपणानां साम्प्रतं प्रयोगा विधीयन्ते ।
लोहपिण्डप्रक्षेपणम्
सम्पादयतुसर्वतः प्रथमं पाषाण-खण्ड-प्रक्षेपणस्य प्रतियोगिता आयरलैण्ड -स्काटलैण्डयोः समभवत् । इत्यमेव लोहपिण्डस्य दूरे प्रक्षेपणं डर्विन-विश्वविद्यालये समारभत प्रतियोगिता चास्यामेरिकायां सन् १८७६ तमे वत्सरे समपद्यत । तत्र ७ फीटमित परिधौ स्थित्वा १६ पौण्डमितभारवतो लोहपिण्डस्य प्रयोगः कृतो दूरता चास्य ३२ फीटमिताऽभूत्, इयं प्रवृत्तिः सततं वर्धमाना सन् १६८० तमे हायनेऽमेरिकायाः ‘एफ. एल. लम्ब्रेचट’ महाशयस्य ४० फीटमितेन प्रक्षेपणेन फलिता । ततः परं राल्फरोजः’ ५१ फीटमितं, सन् १६४८ तमवत्सरे ‘चार्ल्स फोन विले’ महोदयः ५८ फीट ३/४ इञ्चमितं तथा सन् १६६८ तमवर्षे मेक्सिको -विश्वक्रीडोत्सवेऽमेरिकाया एव ‘रेडिमैटसनः’ ६७ फुट ४ ३/४ इञ्चमितं लोहपिण्डं प्रक्षिप्य कीर्तिमानमस्थापयत् ।
लोहश्रृङ्खलापिण्डप्रक्षेपणम्
सम्पादयतुइदं भारतीयपरम्परायां ‘गुलेल’ नाम्ना विख्यातस्य पाषाणखण्ड्प्रेक्षेपण्-साधनस्यानुकरणं विद्यते । पूर्वं केदारस्यैकस्मिन् भागे स्थितः कृषकः क्षेत्रे वृक्षे वा धान्यफलादीन् भोक्तुं समागतान् पक्षिण उड्डाययितुं दृढसूत्रनिर्मितक्षेपण्या गुलिकाक्षेपणं करोति स्म । कालान्तरेण परिष्कारपरम्परयाऽयः पिण्डप्रक्षेपणकला विकसिता । विंश्यां शत्यामेव विकासं प्राप्तेयं कलाऽऽयरलैण्डदेशीयस्य ‘जान फ्लेगन्’ -स्य सन् १६०६ तमे वर्षे १८४ फट ४" मिते दूरवर्तिनि स्थले पूर्वमयोगोलवक्षेपणात् प्रारभ्य साम्प्रतं विश्वकीर्तिमानरुपेण ७३ ७६ मीटरपर्यन्तं तस्य प्रापणेन प्रथिता । हंगरी-रुस-चापान- अमेरिकादिदेशवास्तव्या अस्यां कलायां रुचिं धारयन्ति ।
लोहचक्रकप्रक्षेपणम्
सम्पादयतुग्रीकदेशीयैरेतत् प्रवर्तितमिति प्रतीयते, ते हि पूर्वं पाषाण्- निर्मितं चक्रकं प्रक्षिपन्ति स्म । तच्चक्रकं साम्प्रतिकचक्रकदतीव भारवद् व्यासवच्चाभवत् सन् १६८६ तमे वत्सरे ७ फीटमिते परिधौ स्थित्वा समानायां रेखायां चक्रकक्षेपण- प्रयोगः प्रावर्तत । १६०१ वर्षे ऽमेरिकाया ‘मार्टिन जे शेरीडानः’ १४१ फीट ४ ३/४" मितं प्रक्षेपणं विधाय यशोऽर्जितवान् । सन् १६१२ तमे वत्सरे ‘इन्टरनेशनल एम्योचोर एथलेटिक फैडरेशन’ द्वारा ८, २ १/२ " मिताय मण्डलाय स्वीकृति-प्राप्त्यनन्तरं ‘जे. डंकनः’ तस्मादेव मण्डलात् १५६ फीट १ १/४ मिते दूरस्थले चक्रकं क्षिप्तवान् । तदनन्तर च भूयांसः प्रक्षेपण- कलानुरागिणो निरन्तराभ्यासवशेन गतौ वृद्धिमानयन्तन्ते च ‘फेबुलसः’ २०० फीटमितं दूरस्थलं यावत् चक्रकं प्रक्षिप्य किर्तिमानं स्थापितवान् ।
भल्लप्रक्षेपणम्
सम्पादयतुइदमादावादिमानवो रक्षार्थं क्षुन्निवृत्तये चाखेटवृत्तिं वाऽऽचरन् प्रवर्तयाञ्चकार । शस्त्रयुद्धे पशूनां वधे च भल्लकप्रक्षेपणमुपयोगि मत्वा क्रीडास्वप्यस्य समावेशोऽजायत । सर्वप्रथमं स्वीडनेनास्य प्रतियोगितायां प्रातिनिध्यमाचरितम् । ततः फीनलैण्डादयो देशा अप्याकृष्टाः । सन १६०६ तः साम्प्रतं यावदस्याः कलाया विलासः प्रगतिमानेव दृश्यते । अत एव स्वीडनस्य ‘एरिक-लेमिण्डा’ १७५ फीट ६ इञ्चमितं दूरक्षेपं विधाय विश्वविजेतृत्वं प्राप्नोत्-तत आरभ्यद्य यावदनेके भल्लक्षेपणपण्डिता इमां गतिमवर्धयन् यथा -१६६८ तमे वर्षे रुसवासी ‘जेनिस लुईसः’ ३०७ फुट ६ इञ्चमितं दूरगं भल्लं प्रक्षिप्य कीर्तिमार्जयत् ।
इत्यं क्रमेण लोकप्रियतां श्रितवती प्रक्षेपणकलेयं मुख्यत्वेन चतुः प्रकारान् धारयति । एतेषां प्रकाराणां विश्लेषणपूर्वकमावश्यकः परिचयः क्रमेणेत्थं विद्यते -
प्रक्षेपणकलायाः श्लोकः
सम्पादयतु- विधत्तां प्रक्षेपं कथमपि कुतोऽपि क्वचिदपि
- प्रयत्नाद् हर्षाद् वा लघु-गुरुक-पिण्डस्य नियतम् ।
- यदि स्यात्तत्रापि क्रमनियमजा कापि रुचिरा
- व्यवस्था सा नृणां जनयति मुदं तर्हि कलया ॥
आधारः
सम्पादयतुअभिनवक्रीडातरङ्गिणी