प्रतिज्ञाकौटिल्यम्
प्रतिज्ञाकौटिल्यस्य प्रथमाभिनयो जातः भगवतः सम्पत्कुमारस्य हीर-किरीटोत्सवदर्शनार्थं विविध-प्रदेशागतविदुषां प्रीत्यर्थम्। अमात्यवक्रनासः, अमात्यराक्षसं ब्रवीति यद् वृद्धो राजा सर्वार्थसिद्धिमौर्य राजसिंहासनारूढं विधाय वानप्रस्थाश्रमे प्रविविक्षुरस्ति । राक्षसो नन्दप्रिय आसीत्।
प्रतिज्ञाकौटिल्यम् | |
---|---|
लेखकः | जग्गू वकुलभूषणः |
देशः | भारतम् |
भाषा | संस्कृतम् |
प्रकारः | रङ्गमञ्चीयाभिनवशैली |
नन्दः स्वजनकस्य मौर्याभिषेकवार्तां श्रुत्वा विस्मितोऽभवत् । स मौर्यस्य विनाशाय चिन्तापरायणो वर्तते । राक्षसस्तु रक्त-प्रवाहं विनैव सरलोपायेन नन्दस्य राज्याभिषेकाय युक्तिं चिन्तयति । महाराजेन सर्वार्थसिद्धिना आहूतः राक्षसः तदन्तिकं जगाम । मौर्यस्य शोभायात्रावसरे सेना सुसजिता । सेनापतिरपि मौर्यस्य पट्टाभिषेकं नाभिलषति । सुगाङ्गप्रासादे राजा राक्षससमक्षं मौर्यस्य अभिषेकाकाङ्कां प्रकटयति । मौर्योऽपि तत्रागच्छति।
किञ्चित्समयानन्तरं सेनापतिः तत्रागत्य ब्रवीति यन्मौर्यः शतपुत्रैः सह स्वयं प्रादुर्भूतया दुर्गया पञ्चत्वं प्रापितः । मौर्यपुत्रः चन्द्रगुप्तः सुरक्षित आसीत् । राक्षस-नन्दावत्यौ अचिन्तितौ च आस्ताम् । फलतो नन्दस्य राज्याभिषेको जातः ।
तृतीयाङ्के चन्द्रगुप्त आत्मरक्षार्थं काननं प्रविवेश । तत्र तस्य चाणक्येन सार्द्धं परिचयो जातः । तस्य दयनीयदशां दृष्ट्वा दयार्द्रहृदयबाणक्यस्तस्य राज्याभिषेकार्थं प्रतिज्ञातवान् । कूटनीतिप्रयोगेण असौ नन्दं निहत्य चन्द्रगुप्तस्य राज्याभिषेकं चकार ।
विशेषम्
सम्पादयतुरङ्गपीठमागच्छतां पात्राणां भावङ्गुरी-अलङ्करणादिवर्णनम् अभिनयकलाविरुद्धं मन्यते । प्रतिज्ञा-कौटिल्ये अप्येतद् दृश्यते । समग्रमपि नाटकम् आरभटी-वृत्ति-परायणं वर्तते। विंशशतकेऽपि कविः अयम् अनावश्यकशृङ्गाराद् उन्मुक्तो न दृश्यते । चतुर्थेऽङ्के पाटलिपुत्र-वर्णनायां विट-वेश्यानां शृङ्गारचर्चा समुचिता न प्रतिभाति। रूपकेऽस्मिन् छायातत्त्वस्य प्राचुर्यमुपलभ्यते । चन्द्रगुप्तो वटुवेशं धृत्वा सिंहं विद्रावयति । मानसिकं छायातत्त्वं चन्द्रगुप्तचाणक्ययोः व्यक्तित्वेऽपि लक्ष्यते । सप्तमाङ्के रङ्गमञ्चे पर्वतेश्वरविषकन्ययोः प्रणयालापो नवीनदृष्ट्या रमणीयताधायकोऽस्ति।
कविर्बहुषु प्रसङ्गेषु स्वाभाविकोत्प्रेक्षाभिः सूचयति यत्, प्रकृतिरपि भावि-कार्यक्रमस्य योजनायां सहयोगिनी वर्तते । यथा -
रक्तो विभाति चरमाद्रितटेऽर्कबिम्बः
कालद्विजेन पटुना हि समूह्यमानः।
पट्टाभिषेचनकृते तव शातकुम्भ-
कुम्भो महानिव जलाहरणाय सिन्धोः।।[१]
सम्बद्धाः लेखाः
सम्पादयतुउद्धरणानि
सम्पादयतु- ↑ ८. १२