प्रत्यक्षपद्धतिः
व्याकरणानुवादपद्धतिः सम्भाषणं कर्तुं पर्याप्ता न आसीत् तया पद्धत्या ये भाषाम् अभ्यसितवन्तः ते सम्भाषणं कर्तुम् अशक्ताः भवन्ति स्म । यतः तेषां लक्ष्यं तत् न आसीत् । इस्रेल्(ISRAIL) देशे प्रत्यक्षपद्धतेः विकासः अभवत् । तत्रत्याः नागरिकाः हिब्रू भाषां वदेयुः इति अपेक्षा आसीत् । लेखनं कुर्युः इति अपेक्षा नासीत् । अतः तैः प्रत्यक्षपद्धतेः विकासः कृतः ।
प्रत्यक्षपद्धतेः लक्षणानि
सम्पादयतु- श्रवणस्य भाषणस्य प्राधान्यम् ।
- कक्ष्यां गत्वा तया एव भाषया शिक्षकः वदति । सर्वेऽपि व्यावहाराः शिक्ष्यमाणया भाषया भवन्ति ।
- नित्योपयोनि वाक्यानि शब्दाः च पाठयन्ते ।
- चित्रदर्शनेन वस्तुदर्शनेन, अभिनयेन च शब्दानाम् अर्थपरिचयः ।
- परोक्षरुपेण व्याकरणस्य पाठनम् । उदाहरणद्वारा व्याकरणांशज्ञापनम् व्याकर्णनियमत्त्वेन न ।
- मौखिकाभ्यासद्वारा नूतनाः अभ्यासाः पाठयन्ते ।
- शिक्षकस्य उच्चारणस्य महत्त्वम् ।
दाष्टर्यम्-घाष्टर्यम् लिपिं स्मृत्वा -जानीमः ।
प्रत्यक्षपद्धतेः सूत्राणि
सम्पादयतु- अनुवादं न करोतु । अपि तु प्रदर्शयतु ।
दर्शनं श्रवणं यदा भवति । तदा ग्रहणं भवति ।
- न विवृणोतु । अपि तु अभिनयतु
- भाषणं न करोतु प्रश्नान् पृच्छतु ।
- दोषान् न अनुकरोतु, परिष्करोतु । अशुद्धरुपस्य श्रावणम् न ।
- केवलं शब्दं मा वदतु पूर्णं वाक्यं वदतु । विशिष्टम् अभ्यासं विहाय ।
- पाठ्यपुस्तकस्य उपयोगं न करोतु, पाठ्ययोजनाम् अनुसरतु ।
- पाठ्यांशान् मा मिश्रीकरोतु, पाठयोजनाम् अनुसरतु ।
- अधिकवेगेन मा पाठयतु, अत्यन्तं सावधानेन अपि न पाठनीयम् ।
- असहनां मा प्रदर्शयतु । Take it easy .
विमर्शः
सम्पादयतुअस्याः पद्धतिविषये अपि महान् विरोधः अस्ति । गच्छता कालेन ज्ञातम् । प्रत्यक्षपद्धतिः परिपूर्णा न । अत्र अपि न्यूनताः सन्ति ।
- प्रत्यक्षपद्धतेः सफलता शिक्षकम् अवलम्बते । पाठयपुस्तकं विहाय पाठनीयम् । यतः-
- श्रवणस्य भाषणस्य केवलम् अवसरः । दिनद्वयानन्तरं ज्ञातोऽऽपि अवसरः विस्मृतः भवेत् ।