प्राणचिकित्सा
प्राणशक्तिचिकित्सा (Pranic healing) चिकित्सापद्धतिषु अन्यतमा । एषा चिकित्सा प्राचीना । मन्त्रचिकित्सा, शमनिकचिकित्सा, दैविकचिकित्सा इत्याद्याः अस्याः चिकित्सायाः समानाः चिकित्साः भवन्ति।
इतिहासः
सम्पादयतुचिनादेशस्य मास्टर् चो कोक् सुईवर्यः प्राणचिकित्सायाः वैज्ञानिकस्वरूपं परिचायितवान् । शरीरे विद्यमानानाम् ११ चक्राणाम् आधारेण एषा चिकित्सा क्रियते । चक्राणि तेजोयुक्तानि भवन्ति । अतः एतानि प्राणशक्तिं शरीरे विद्यमानेषु अङ्गेषु सम्प्रसारयन्ति । चक्रेषु व्यत्यासः भवति चेत् शरीरे विपरिणामाः भवन्ति ।
प्रकाराः
सम्पादयतुअस्याः चिकित्सायाः द्वौ प्रकारौ भवतः । एकः स्वरोगोपशमः प्रकारः, द्वितीयं जीवचैतन्यम् इति।
स्वरोगोपशमः
सम्पादयतुमास्टर् चो कोक् सुईवर्यः निरूपयति यत् सर्वासु अपि अवस्थासु शरीरं स्वस्य रोगोपशमने समर्थं भवति इति । यदा शरीरे व्रणः भवति तदा विना औषधेन केषुचित् दिनेषु व्रणः अपगतः भवति । शरीरं स्वयं व्रणान् वारयति । एवमेव शरीरे दग्धभागस्यापि उपशमः भविष्यति ।
जीवचैतन्यम्
सम्पादयतुजीवनाय प्राणस्य प्रामुख्यम् अस्त्येव । एवं जीवशक्तिरपि अपेक्षिता । जीवचैतन्यचिकित्सया जीवशक्तेः वृद्धिः भविष्यति । चिकित्सया अङ्गाङ्गेषु सत्प्रभावः भवति ।