प्राथमिकनेपालीभाषायाः कथा
प्राथमिक नेपालीकथा (१८२७-१९५७)
सम्पादयतुवर्तमानसमयपर्यन्तस्य नेपालीभाषाया अनुसन्धानः कथयति यद् शक्तिवल्लभ अर्याललिखितं महाभारतविराटपर्वं (१८२७) नेपालीसाहित्यस्य प्रथमाख्यानात्मककृतिरस्ति । तत्पश्चात् प्रकाशिताः प्रमुखकृतयः निम्नलिखिताः सन्ति ः
- भानुदत्त्तस्य हितोपदेशमित्रलाभस्यानुवादः (सं.१८३२), ।
- शक्तिवल्लभ अर्यालस्य संस्कृत नाटकस्य अनुवादः हास्यकदम्बः (१८८५),
- अज्ञात व्यक्तिलिखित दशकुमारचरितम् १८७५) ।
कथातत्त्वस्य दृष्टे पीनासस्य कथा (सं.१९७२) प्रथमनेपाली कथा मन्यते । ।[१] पीनासकथापश्चात् मुन्शीका तीन आहान (सं.१८७७), बहत्तर सुगाको कथा (१८९०), सत्तलसेनको कथा इत्यादयः एतत्कालस्य उल्लेख्यकृतयः । तत्पश्चात् अनुमानतः ८० वर्षपर्यन्तं नेपाली कथाकृतिर्नैव दृष्टगाेचर अस्ति । १९५८ वैक्रमाब्दे गोरखापत्रस्य प्रकाशनपश्चादेव नेपालीकथालेखनस्य प्रारम्भ अभवदिति दृष्यते । [२]