प्रीतिलता वादेदार ( /ˈprtɪlətɑː vɑːdɛdɑːrə/) (वङ्ग: প্রীতিলতা ওয়াদ্দেদার, हिन्दी: प्रीतिलता वादेदार, आङ्ग्ल: Pritilata Waddedar) भारतमातुः स्वतन्त्रतायै स्वप्राणस्य आहुतिम् अयच्छत् । भारतीयेतिहासे केनापि क्रान्तिकारिणा प्राणः आहुतः इति बहुधा श्रूयते, परन्तु कयाचित् क्रान्तिकारिण्या प्राणः आहुतः इति न्यूनम् एव । याः महिलाः देशाय स्वप्राणाहुतिम् अयच्छन्, तेषु प्रतिलता अपि अन्यतमा । कित्तूरुराज्ञी चेन्नम्मा, बेगम हजरतमहाल, मातङ्गिनी हाझरा इत्यादयः क्रान्तिकारिण्यः अपि देशाय स्वप्राणाहुतिम् अयच्छन् [][]

प्रीतिलता वादेदार
Native name প্রীতিলতা ওয়াদ্দেদার
जन्म (१९११-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ५-०५)५ १९११
चटगाँव (Chittagong), बङ्गाल प्रसिडेन्सि,
ब्रिटिशकालः(अधुना बाङ्ग्लादेशः)
मृत्युः २३ १९३२(१९३२-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ९-२३) (आयुः २१)
चटगाँव (Chittagong), बङ्गाल प्रसिडेन्सि,
ब्रिटिशकालः (अधुना बाङ्ग्लादेशः)
मृत्योः कारणम् विषं पीत्वा आत्महननम्
देशीयता भारतीया
अन्यानि नामानि रानी (लालतिकनाम)
जातिः वङ्गप्रदेशीया
शिक्षणस्य स्थितिः ढाकाविश्विद्यालयः
वृत्तिः शिक्षिका
कृते प्रसिद्धः युरोपियन् क्लब् आक्रमणम् (१९३२)
पितरौs
  • जगतबन्धु वादेदार (father)
  • प्रतिभादेवी (mother)
सम्बन्धिनः मधुसुदनः (भ्राता)
कनकलता (भगिनी)
शान्तिलता (भगिनी)
आशालता (भगिनी)
सन्तोषः (भ्राता)

जन्म, बाल्यं च

सम्पादयतु

१९११ तमस्य वर्षस्य ‘मई’-मासस्य पञ्चमे (५/५/१९११) दिनाङ्के वङ्गराज्यस्य चटगाँव-ग्रामे (अधुना बाङ्गलादेशस्य बृहत्तमेषु नगरेषु अन्यमं नगरम्) प्रीतिलतायाः जन्म अभवत् [] । तस्याः पितुः, मातुः च नाम क्रमेण जगतबन्धुः, प्रतिभामयी । यद्यपि पिता जगतबन्धुः नगरपालिकायां कार्यं कुर्वन् आसीत्, तथापि सः स्वपरिवारस्य पोषणं कर्तुम् असर्थः आसीत् । अतः स्वबालिकायाः पठनस्य व्ययः तु तस्य कृते दुष्कर एव आसीत् । पितुः निर्धनता प्रीतिलतायाः अनाध्ययनस्य कारणम् आसीत् । परन्तु प्रीतिलता ग्रामस्य वीथिकासु यदा क्रीडितुं गच्छति स्म, तदा सर्वे तस्याः चातुर्येण, गुणैः च मुग्धाः भवन्ति स्म । ततः यदि कोऽपि जानाति स्म यत्, प्रीतिलता शालां न गच्छिति, तर्हि सः तस्याः पितरं कथयति स्म यत्, “एनां निश्चयेन पाठयतु” इति । सर्वैः पौनःपुन्येन उक्ते सति जगतबन्धुः स्वबालिकां शालां प्रेषितुं तत्परः अभवत् ।

शिक्षणम्

सम्पादयतु
 
मेट्रिक्युलेशन् उत्तिर्णायाः प्रीतिलतायाः प्रमाणपत्रम्

शालायां प्रविष्टा प्रीतिलता स्वप्रतिभया अन्यछात्रेभ्यः आकर्षणस्य केन्द्रम् अभवत् । शालायां कल्पना दत्त नामिकया कन्यया सह तस्याः मैत्रिः अभवत् । (एते आजीवनं मित्रपाशेन बद्धे आस्ताम् । क्रान्तिकारिप्रवृत्तिषु उभयोः महद्योगदानं विद्यते ।) शालायां शिक्षकाः प्रार्थनायाः अनन्तरं सर्वैः बालकैः प्रितीज्ञां कारयन्ति स्म यत्, “अहम् ईश्वरं, सम्राटं च प्रति निष्ठां धरिष्ये” इति । प्रीतिलतायाः मनसि सहजः प्रश्नः समुद्भूतः यत्, “किमर्थं सम्राटं प्रति निष्ठा धर्तव्या ? देशं प्रति किमर्थं न ?” इति । तस्याः सः सहजप्रश्नः एव आजीवनं तस्याः सहपथगामी अभवत् ।

प्रीतिलता बहुप्रतिभायाः स्वामिनी आसीत् । सा क्रीडायां, लेखनकार्ये, वक्तृत्वे च उत्तमा आसीत् । तस्याः सखी ‘क्रान्तिकारिओनां सम्भारणां’-नामके स्वपुस्तके अलिखत्, “अहं प्रीतिलता च बाल्यकाले स्वप्नम् पश्यावः स्म यत्, आवां वैज्ञानिके भविष्यतः उत क्रान्तिकारिण्यौ । परन्तु कलकत्ताविश्वविद्यालयस्य ‘रामचन्द्र प्रेमचन्द्र’-शिष्यवृत्तिः बाल्यकालस्य आवयोः प्रथमलक्ष्यम् आसीत्” इति [] । परन्तु प्रीतिलतायाः गणितक्षेत्रे अधिकप्राप्ताङ्के न प्राप्ते सा शिष्यावृत्तिं प्राप्तुम् असफला अभवत् । अतः सा ढाकाविश्वविद्यालये अध्ययनं प्रारभत ।

क्रान्तिकारिप्रवृत्त्या सह उच्चशिक्षणम्

सम्पादयतु

ढाका-नगरे यदा प्रीतिलता पठन्ती आसीत्, तदा तस्याः परिचयः लीला नाग-नामिकया महिलया सह अभवत् । सा महिला ‘दीपालीसङ्घ’-नामकं क्रान्तिकारिसङ्घटनं चालयति स्म [] । तस्मिन् सङ्घटने भारतीयदेशभक्तेभ्यः लष्टिकायाः, असेः च उपयोगं कर्तुम् अभ्यासवर्गः भवति स्म । वर्षत्रयं यावत् प्रीतिलता तस्य सङ्घटनस्य सदस्या आसीत् । प्रीतिलता यदा बी.ए. इत्यस्य अन्तिमवर्षे पठन्ती आसीत्, तदा तस्याः पितुः वृत्तिः व्यपगता । तेन गृहस्य आर्थिकस्थितिः अतिविकटा अभवत् । अतः प्रीतिलता नन्दनकाननविद्यालये शिक्षिकात्वेन कार्यं प्रारभत [] । एकदा सूर्यसेन-नामकः देशभक्तः क्रान्तिकारी चटगांव-ग्रामं गतः आसीत् । तत्र तस्य परिचयः प्रीतिलतया सह अभवत् । सः प्रीतिलतायां भविष्यस्य समर्थां क्रान्तिकारिणीम् अपश्यत् । अतः सः प्रीतिलताम् अवदत्, “भगिनी ! यदि त्वं निश्चयं कुर्याः, तर्हि देशस्य महतीं सेवां कर्तुं प्रभवेः” इति । प्रीतिलता तु देशसेवायाः कार्यं कर्तुं तत्परा आसीत् । परन्तु तस्याः कुटुम्बस्य आर्थिकस्थित्याः कारणेन सा क्रान्तिकारिप्रवृत्त्यै कार्यं कर्तुं निराकरोत् । सा सूर्यसेनम् अवदत्, “देशसेवायै तु मम मनः मुहुर्मुहुः कथयति । परन्तु सद्यः मम परिवारस्य आर्थिकस्थितिः अतिविकटा अस्ति” इति । प्रीतिलतायाः वचं श्रुत्वा सूर्यसेनः प्रत्युदतरत्, “भगिनी ! त्वं सम्पूर्णभारतस्य सेवायै, रक्षणाय च सर्वस्यं समर्पयितुं तत्परा असि चेत्, तव लघु गृहस्य चिन्तनं किमर्थं कुर्वती असि । एकवारं देशसेवायै तत्परा तु भव, तव गृहस्य विषये विधाता चिन्तयिष्यति” इति । सूर्यसेनेन प्ररिता प्रीतिलता देशसेवायै तत्परा अभवत् ।

प्रीतिलतायाः पिता यदा तस्याः क्रान्तिकारिप्रवृत्तेः योगदानस्य समाचारम् अश्रृणोत्, तदा सः अत्यन्तः कुपितः अभवत् । परन्तु दृढनिश्चयं कृतवती प्रीतिलता गृहत्यागं कृत्वा भारतीयगणतन्त्रसेनायां कार्यं प्रारभत ।

सूर्यसेनस्य रक्षणम्

सम्पादयतु

सूर्यसेनः आङ्ग्लविरुद्धम् भारतीयगणतन्त्रसेनायाः स्थापनाञ्चकार । तस्याः संस्थायाः सदस्याः सूर्यसेनस्य अध्यक्षतायाम् आङ्ग्लसर्वकारस्य शस्त्रागारेषु आक्रमणं कुर्वन्ति स्म । ततः तेषां शस्त्राणाम् उपयोगं ते आङ्ग्लविरुद्धम् एव कुर्वन्ति स्म । १९३० तमस्य वर्षस्य 'अप्रैल'-मासस्य अष्टादशे (१८/४/१९३०) दिनाङ्के सूर्यसेनः अन्यक्रान्तिकारिभिः सह मिलित्वा चटगांव-ग्रामस्य आङ्ग्लशस्त्रागारस्य उपरि आक्रमणम् अकरोत् । तस्मिन् आक्रमणे आङ्ग्लसर्वकारस्य ८६ आरक्षकाः, १२ क्रान्तिकारिणः च मृताः । ततः आङ्ग्लाः विभिन्नेषु स्थानेषु सूर्यसेनस्य अन्वेषणं कुर्वन्ति स्म । यद्यपि शस्त्रागाराक्रणस्य अनन्तरं बहुनि दिनानि व्यतीतानि आसन्, तथापि आङ्ग्लाः सूर्यसेनस्य अन्वेषणं नास्थगयन् ।

प्रीतिलतायाः क्रान्तिक्षेत्रे अमुकदिनानि एव जातानि आसन् । प्रीतिलता सूर्यसेनेन सह धोलघाट-ग्रामं गता आसीत् । सूर्यसेनः धोलघाट-ग्रामे अस्ति इति सामाचारम् आङ्ग्लाधिकारिणः अजानन् । अतः ते सशस्त्रसैनिकान् सूर्यसेनस्य उपरि आक्रमणं कर्तुम् आज्ञाम् अयच्छन् । ततः ग्रामस्य एकस्यां वीथिकायां क्रान्तिकारिणाम्, आङ्ग्लारक्षकानां च युद्धम् अभवत् । प्रीतिलता अग्निगुलिकायन्त्रं चालयितुं न जानाति स्म, परन्तु स्थित्याः अवलोकनं कृत्वा सा अग्निगुलिकायन्त्रेण आङ्ग्लसैनिकेषु आक्रमणम् अकरोत् । प्रीतिलतायाः अग्निगुलिकया आङ्ग्लाधिकारिणां नेता मृतः । अतः आङ्ग्लारक्षकानां दले भयः समुद्भूतः । तस्य भयस्य लाभं नीत्वा क्रान्तिकारिणः तस्मात् स्थलात् अपलायन् । परन्तु तस्मिन् सङ्ग्रामे सूर्यसेनस्य विश्वस्तौ क्रान्तिकारिणौ अपूर्वः, निर्मलः च मृतौ । तस्मिन् युद्धे प्रीतिलतया यदि आङ्गलाधिकारिणः मृत्युः नाभविष्यत्, तर्हि सर्वेषां क्रान्तिकारिणां मृत्युः निश्चयेन अभविष्यत् । आङ्ग्लारक्षकैः सह युद्धे सति प्रीतिलता कानिचन दिनानि स्वगृहं गत्वा न्यवसत् । यतो हि प्रीतिलता सदृशा लघ्वी बालिका आङ्ग्लारक्षकाणां नेतुः हननं कर्तुं शक्नोति इति न कस्यापि मनसि प्रश्नः उद्भवति । परन्तु एकस्मिन् दिने सूर्यसेनस्य आदेशेन प्रीतिलता स्वनिवासस्थानं पर्यवर्तयत् । सा स्वसख्याः कल्पनायाः गृहम् अगच्छत् ।

युरोपियन् क्लब् आक्रमणम् []

सम्पादयतु
 
युरोपियन् क्लब् इत्यस्य प्रासादस्य बहिः यत्र प्रीतिलतया विषं पीत्वा प्राणाहुतिः दत्ता, तस्मिन् स्थले अधुना प्रीतिलतायाः स्मारकम् अस्ति ।

सूर्यसेनः, तस्य सहक्रान्तिकारिणः च आङ्ग्लारक्षकान् मारितवन्तः इत्यनेन आङ्ग्लारक्षकाः अतिकुपिताः आसन् । अतः ते आभारतं प्रचारं कृतवन्तः यत्, “सूर्यसेनस्य विषये यः कोऽपि सूचनां दास्यति उत तं गृहित्वा अस्मभ्यं दास्यति, तस्मै आङ्ग्लसर्वकारः दशसहस्ररूप्यकाणां पारितोषिकं दास्यति” इति । आङ्ग्लानाम् एतादृशेन कृत्येन सूर्यसेनस्य क्रोधः दावानलः अभवत् । सः आङ्ग्लानां संहारं कर्तुं योजनाम् अकरोत् । विलासिनः आङ्ग्लाः चितागोङ्ग-स्थलस्य समीपं पर्वतीयस्थले युरोपियन् क्लब् चालयन्ति स्म । तस्य प्रासादस्य बहिः लिखितम् आसीत् यत् “कुक्काराणां, भारतीयानां च प्रवेशः निषिद्धः (Dogs and Indians not allowed)” इति [][] । आङ्ग्लाः तत्स्थलं मदिरापानं, परस्त्रीगमनं, द्युतक्रीडां च कर्तुं गच्छन्ति स्म । “आङ्ग्लाः तस्मिन् स्थले यदा मदिरायाः मदेन मदान्धाः भवेयुः, तदा तेषु गुलिकायाः प्रहारं कृत्वा सर्वान् मारयिष्यामः” इति क्रान्तिकारिणां योजना आसीत् । एतस्याः योजनायाः समस्तं दायित्वं प्रीतिलतायाः आसीत् । सा पञ्चदशक्रान्तिकारिणां दलस्य निर्माणम् अकरोत् [] । सा तस्य दलस्य अध्यक्षा आसीत् ।

१९३२ तमस्य वर्षस्य 'सितम्बर'-मासस्य चतुर्विंशतितमे (२४/९/१९३२) दिनाङ्के रात्रौ 'भारतीयगणतन्त्रसेना' इत्यस्याः संस्थायाः क्रान्तिकारिणः आङ्ग्लारक्षाणाम् उपरि आक्रमणम् अकुर्वन् । सर्वैः क्रान्तिकारिभिः आङ्ग्लारक्षकाणां वस्त्राणि धृतानि आसन्, येन तेषाम् उपरि न कस्यापि सन्देहः अभवत् । यदा क्रान्तिकारिणः गुलिकायाः प्रहारं प्रारभन्त, तदा आङ्ग्लाः सज्जाः नासन् । परन्तु स्थितेः अवलोकनं कृत्वा तेऽपि प्रत्याक्रमणम् अकुर्वन् । तेषु केचन इतस्ततः अधावन्, येषां पार्श्वे अग्निशस्त्रम् आसीत्, ते क्रान्तिकारिषु गुलिकाप्रहारं प्रारभन्त । एवम् उभयोः पक्षयोः परस्परं पञ्चदशनिमेषं यावत् युद्धम् अभवत् । तस्य खण्डस्य वातावरणम् अग्निगुलिकायाः ध्वनिना गुञ्जति स्म । तावता एकस्य आङ्ग्लस्य गुलिकया प्रीतिलता आहता अभवत् । यद्पि प्रीतिलता गुलिकया आहता, तथापि सा वीराङ्गना युद्धं कुर्वती आसीत् ।

मृत्युः

सम्पादयतु
 
सद्यः चगगांव-महानगरे प्रीतिलता वादेदार विद्यालयः प्रीतिलतायाः संस्मरणार्थं चलति ।

'युरोपियन् क्लब्'-मध्ये गुलिकायाः ध्वनिं श्रुत्वा समीपस्थाः आङ्ग्लारक्षकाः अपि 'युरोपियन् क्लब्' इत्यत्र गताः । अधिकानाम् आरक्षकाणाम् आगमनं क्रान्तिकारिणां कृते हानिकारकं न भवेत् इति विचिन्त्य प्रीतिलता सर्वान् पलायितुम् आदेशम् अयच्छत् । प्रीतिलता स्वयम् आहता आसीत्, अतः सा चलितुम् अपि असमर्था आसीत् । तेन अन्यक्रान्तिकारिणः ताम् एकाकिनीं त्यक्त्वा गन्तुं नेच्छन्ति स्म । तेषां कथनम् आसीत् यत्, “वयं भवतीं नीत्वैव गमिष्यामः” इति । परन्तु समयः अधिकः नासीत्, अतः प्रीतिलता उग्रस्वरेण सहक्रान्तिकारिभ्यः आदेशम् अयच्छत्, “दलस्य नायकत्वेन अहम् आदिशामि यत्, भवन्तः सर्वे इतः गच्छन्तु । मम कृते अहं सर्वेषां जीवनस्य बलिदानं कर्तुं न शक्नोमि” इति ।

आदेशपालयितुं बद्धाः क्रान्तिकारिणः प्रीतिलतां तत्रैव त्यक्त्वा अगच्छन् । आहता प्रीतिलता कांञ्चन घण्टां यावत् शरीरवेदनाम् असहत् । "आरक्षकाणां हस्ते जीवितबद्धा न भविष्यामि" इति प्रीतलतायाः प्रतिज्ञा आसीत् । अतः सा विषम् अपिबत्, येन तस्याः प्राणः शरीरात् निर्गतः ।

युरोपियन् क्लब् इत्यस्य आक्रमणे द्वादश आङ्ग्लारक्षकाः आहताः अभवन् । दुर्भाग्येन एकस्यापि आङ्ग्लारक्षकस्य मृत्युः नाभवत् । एकस्याः वराङ्गनायाः मृत्युः जातः आसीत् । 'युरोपियन् क्लब्' इत्यस्य खण्डस्य बहिः आङ्ग्लाकारक्षकाः अज्ञातं शवम् अपश्यन् । आङ्गलानां ज्ञानं नासीत् यत्, एषा का आसीत् इति । यतो हि तस्य शवस्य वस्त्राणि आङ्ग्लारक्षकाणां गणवेषः आसीत् । अतः सर्वे अधिकारिणः तस्य शवस्य विषये अन्वेषणम् अकुर्वन् । परन्तु तस्य शवस्य विषये न कामपि सूचनाम् आङ्ग्लाः प्रापन् । तत् शवं प्रीतिलतायाः आसीत्, यया भारतमातुः रक्षायै कृते युद्धे स्वप्राणस्य बलिदानं कृतम् आसीत् ।

विशेषम्

सम्पादयतु

प्रीतिलतायाः वयः अधिकं नासीत् । तया जीवनस्य आरम्भः कृतः आसीत् । परन्तु देशसेवायै सा सर्वस्वं समर्प्य स्वशक्त्यानुसारं भारतमातुः सेवाम् अकरोत् । अनेकैः तत्कालीनैः क्रान्तिकारिभिः प्रीतिलतायाः मृत्योः शोकः कृतः । यः देशसेवायाः भावः प्रीतिलतायाम् आसीत्, तादृशं देशभक्त्याः भावं सद्यः देशजनानां मनसि उद्भावयितुं देशभक्ताः लेखमाध्यमेन, नाटकमाध्यमेन, गीतमाध्यमेन प्रयासं कुर्वन्तः सन्ति । २०१० तमे वर्षे भारतीयचलच्चित्रक्षेत्रे ‘खेले हम जी जाँ से’ एकं चलच्चित्रं निर्मितम् आसीत् । तस्मिन् चलच्चित्रे विशाखा सिंह नामिका नायिका प्रीतिलतायाः पात्रस्य अभिनयम् अकरोत् [][१०]

बाह्यसम्पर्कतन्तुः

सम्पादयतु

http://timesofindia.indiatimes.com/city/kolkata/After-80-yrs-posthumous-degrees-for-revolutionaries/articleshow/12364819.cms?referral=PM

http://archive.thedailystar.net/newDesign/news-details.php?nid=184343 Archived २०१५-०१-१२ at the Wayback Machine

http://books.google.co.in/books?id=wcoBAAAAMAAJ&redir_esc=y

http://www.towardsfreedom.in/site/Pritilata_Waddedar

उद्धरणम्

सम्पादयतु
  1. १.० १.१ "Pritilata Waddedar (1911-1932)". News Today. Archived from the original on 2012-01-26. आह्रियत 18 December 2012. 
  2. २.० २.१ "After 80 yrs, posthumous degrees for revolutionaries". The Times of India. Mar 22, 2012. Archived from the original on 2013-05-09. आह्रियत 18 December 2012. 
  3. "Pritilata's 100th birthday today". The Daily Star. ५/५/२०११. आह्रियत 18 December 2012. 
  4. Kalpana Dutt (1979). Chittagong Armoury raiders: reminiscences. Peoples̕ Pub. House. p. 46. आह्रियत 18 December 2012. 
  5. "Biography of Waddedar, Pritilata". Banglapedia. आह्रियत 18 December 2012. 
  6. Pritilata (in Bengali). Prometheus er pothe. 2008. p. 15. 
  7. "The Fire-Brand Woman Of Indian Freedom Struggle.". Towards Freedom. आह्रियत 18 December 2012. 
  8. Geraldine Forbes (28 April 1999). Women in Modern India. Cambridge University Press. pp. 140–. ISBN 978-0-521-65377-0. आह्रियत 18 December 2012. 
  9. "Young rebels". Business Standard. आह्रियत 18 December 2012. 
  10. "The veer Konna of Chittagong". The Telegraph (Calcutta). आह्रियत 19 December 2012. 
"https://sa.wikipedia.org/w/index.php?title=प्रीतिलता_वादेदार&oldid=480620" इत्यस्माद् प्रतिप्राप्तम्