प्रेमचन्दः

(प्रेमचन्द इत्यस्मात् पुनर्निर्दिष्टम्)


मुंशी-प्रेमचन्दः (जुलायि 31, 1880 – अक्टू. 8, 1936) तु आधुनिकहिन्दी-उर्दु-साहित्ययोः प्रख्यातः लेखकः आसीत्। स तु भारते व्यापकतया एव विंशतितमस्य शताब्दस्य हिन्दी-उर्दुयोः अग्र्यः लेखकः गण्यते।[१] अयं ह्येकः उपन्यासलेखकः, कथालेखकः, नाटककारश्चासीत्। अस्य तु उपन्याससम्राट् इत्यभिधानं प्रसिद्धम्।

Munshi Premchand
जननम् Dhanpat Rai Srivastav
(१८८०-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-३१)३१ १८८०
Lamhi, North-Western Provinces, British India
मरणम् ८ १९३६(१९३६-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-०८) (आयुः ५६)
Varanasi, United Provinces, British India
वृत्तिः Writer, Novelist
भाषा Hindustani (Hindi-Urdu)
राष्ट्रीयता British Indian
प्रमुखकृतयः Godaan, Bazaar-e-Husn, Karmabhoomi, Shatranj ke khiladi
पतिः/पत्नी Shivarani Devi
शिशवः Sripath Rai, Amrit Rai, Kamala Devi

हस्ताक्षरम्

जीवनम् सम्पादयतु

प्रेमचन्दस्तु जुलायिमासस्य 31 तमायां 1880 तमे क्रि.वर्षे वाराणसीनिकटे लमहीनाम्नि ग्रामे अजायत। अस्य पिता मुंशी-अजायबलालः प्रेषविभागे लिपिक आसीत्। तस्य पितरौ तस्य धनपतराय (अर्थात् धनस्य स्वामी) इति नामकरणमकुरुताम्। तस्य पितृव्यः सम्पन्नः भूपतिः कश्चित् महाबीराख्यः तं नवाब् इति नाम अददत्। अयं खलु प्रेमचन्दस्य प्रथमतया चितः साहित्यिकाभिधानमभूत्।[२] तस्य प्रारम्भिकी शिक्षा स्थानीये एकस्मिन् मदरसा इति पाठशालायां अभवत्। तत्र स उर्दुभाषां पठितवान्।[३] प्रेमचन्दस्य पितरौ तस्याल्पायुषि एव परलोकं गतवन्तौ।

साहित्यिक-कृतयः सम्पादयतु

प्रेमचन्दः त्रिशताधिकानि लघुकथाः लिखितवान् अपि च चतुर्दश उपन्यासाः रचितवान्। बहवस्तस्य निबन्धाः, पत्राणि, नाटकानि अनुवादाश्च सन्ति। प्रेमचन्दस्य बह्वः कृतयः आङ्ग्लभाषायां रूसीयभाषायां च अनूदिताः सन्ति।

तस्य अन्तिम उपन्यासः गोदान इत्ययं हिन्दीभाषायाः उत्कृष्टतमः उपन्यासः परिगण्यते।[४] तस्य प्रमुखपात्रः होरी इत्ययं दरिद्रकृषकः। स तु उत्कण्ठितः एकां धेनुमवाप्तुम्। यस्मात् सा ग्रामीणे भारते सम्पत्त्याः प्रतिष्ठायाश्च प्रतिमानम्।

कफ़न् इत्यस्मिन् एकः अकिञ्चनजनः तस्य मृतायाः भार्यायाः अन्तिमसंस्कारं कर्तुं धनं एकत्रीकरोति, परन्तु तद्धनं भोजनपानयोः व्यययति।

ग्रन्थाः सम्पादयतु

  • कफन (लघु कथा)
  • गोदान
  • सेवासदन
  • निर्मला
  • कर्मभूमि
  • मनोरमा
  • प्रेमाश्रम
  • गबन
  • मानसरोवर
  • रंगभूमि

सन्दर्भाः सम्पादयतु

  1. Munshi Premchand of Lamhi Village, Robert O. Swan, Duke University Press, 1969
  2. Premchand: A Life, Amrit Rai (Harish Tirvedi, translator), People's Publishing House, New Delhi, 1982.
  3. "Literaryindia.com". Archived from the original on 2013-10-03. आह्रियत 2011-12-29. 
  4. "Finest Hindi Novel". Archived from the original on 2008-03-13. आह्रियत 2011-12-29. 

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=प्रेमचन्दः&oldid=481676" इत्यस्माद् प्रतिप्राप्तम्