प्रेमचन्द्रसिंहः अस्माकं भारतस्य ईशान्यभागे स्थितेषु राज्येषु एकमस्ति मणिपुरम्। तद्राज्यं बर्मादेशस्य सीमाभागे अस्ति। अस्य उत्तरभागे नागाल्याण्ड् राज्यमस्ति, दक्षिणे मिजोराम्, पश्चिमे असम राज्यं च सन्ति । एतत् पर्वतमयं राज्यम्। अस्माकं कर्णाटकराज्यस्य पश्चिमघट्टप्रदेश इव , पश्चिमसमुद्रात् उपरि समूहरूपेण आगच्छन्ति मेघाः , तैः वृष्टिः सम्पाद्यते। अतः अत्र वृष्टिः अधिका। एतत् राज्यम् अनेकासां नदीनाम् उगमस्थानमस्ति। इम्फाल् अस्य राज्यस्य राजधानी अस्ति। अस्य समीपे अचन्बेग्ये इति नगरे वसति एम्. कमलसिंहः। कमलसिंहः शिक्षकः। पत्नी तामुरै देवी। एतयोः दम्पत्योः षट् पुत्र्यः एकः पुत्रः। सः एव अपत्येषु कनिष्ठः। तस्य जन्म १९८० तमवर्षस्य नवेम्बर् मासस्य चतुर्दशे दिने अभवत्। सः अतीव निपुणमतिः। एषः अचन्बेग्ये नगरस्य नार्तपायिण्ट् पाठशालायां प्रथमकक्ष्यायाः छात्रः।

१९८७ तमवर्षस्य सेप्टेम्बरमासस्य पञ्चमं दिनम्। तस्य पाठशालायामपि तद्दिने शिक्षकदिनम् आचरितवन्तः। प्रेमचन्दः अपि दिनाचरणे भागम् ऊढ्वा, कार्यक्रमानन्तरं गृहं प्रति निवृत्तः। शिक्षकदिनाचरणं निमित्तीकृत्य सः तद्दिने प्रातराशं न स्वीकृतवान् आसीत्। प्रेमचन्दः बुभुक्षापीडितः आसीत्। तदा एकादशवादनमासीत्। जनकः तथा तस्य सहोदर्यः च स्वस्वपाठशालासु प्रचालिते शिक्षकदिवसोत्सवे भागं ग्रहीतुं गतवन्तः आसन्। माता गृहद्वारं तालेन पिधाय बहिर्गतवती आसीत्।

सुनीलः प्रेमचन्द्रस्य पितृव्यस्य पुत्रः। क्रीडासु साहाय्यमाचरति स्म। सः चतुर्वर्षीयः आसीत्। मातापितरौ सहोदर्यः च यावत् न प्रत्यागच्छन्ति तावत् पर्यन्तम् अहम् अनेन सह क्रीडामि इति विचिन्त्य प्रेमचन्दः सुनीलस्य गृहं गतवान्। सुनीलः गृहे नासीत्। अतः एकाकी एव गृहस्य पृष्ठभागे स्थितां वाटिकां प्रति गतवान्। वाटिकायां एकः मधुकर्कटी वृक्षः आसीत्। तस्मिन् एकं फलं पक्वमासीत्। प्रेमचन्दः तत् दृष्टवान्। सः तत् फलं चेतुं वृक्षकमारूढवान्। वृक्षस्य नातिदूरे एकं सरः आसीत्। तत् त्रयोदशपादपरिमितवैशाल्ययुक्तमासीत्। दशपादपरिमितजलमासीत् तस्मिन् सरसि। तेन सरसा एव गृहवाटिकायाः सर्वेषां वृक्षणां कृते जलसेचनं भवति स्म। तस्य सरसः नैरुत्यदिशि सप्तपादपरिमितः एकः वृक्षखण्डः आसीत्। जलस्य यदा आवशयकता भाति स्म तदा तस्य उपरि स्थित्वा जनाः घटे जलं प्रपूर्य गच्छन्ति स्म। वर्षद्वयात् पूर्वं सः दारुखण्डः तत्र स्थापितः। इदानीं सः दारुखण्डः जलसिक्तः अतः शैवलम् आसीत्। यत्र जनाः तिष्ठन्ति तस्मिन् भागे उद्घर्षणेन शैवलं नष्टमासीत्। पार्श्वे तु तत् आसीत् एव।

सुनीलः प्रेमचन्दतः पूर्वमेव गृहस्य पृष्ठभागे आगतवान् आसीत्। वाटिकायाः एकस्मिन् भागे मलं विसृज्य क्षालनार्थं सरसि अवतीर्णवान्। शैवलोपरि पादौ स्थापितवान् अतः पादस्खलनेन जले पतितवान्। यदा प्रेमचन्दः वृक्षम् आरूढवान् तदा स सरसः जले निमज्जन्तं कञ्चन बालं दृष्टवान्। सपदि वृक्षात् अवतीर्य जलं प्रविष्टवान्। भयेन आक्रोशं कृतवान्। हा! सुनीलः जले पतितः, मृत भवेत् । रक्षत रक्षत इति पुनः उच्चैः शब्दं कृतवान्, परन्तु कोऽपि नागतवान् । किं करोमि इति चिन्तितवान्। कथम् अस्य रक्षणं करोमि। समीपे एव एकः दीर्घा यष्टिः आसीत्। तां सुनीलस्य समीपे स्थापितवान्। सुनीलः यदा यष्टिं गृहीतवान् तदा तं स्वसमीपम् आकृष्टवान्। प्रेमचन्दः तस्य शिरसः केशान् गृहीतवान् परन्तु तस्य भारः अधिकः आसीत् अतः जलात् बहिः तं आनेतुं न शक्तः।

किमपि वस्तु यदा जले भवति तदा तस्य भारं ज्ञातुं न शक्नुमः। यदा जलात् बहिः आगच्छति तदा एव तस्य भारः कियदस्ति इति ज्ञायते। तटे मृत्तिका आर्द्रा आसीत् अतः पादस्खलनं भवति स्म। षड्वर्षीयेणन प्रेमचन्देन चतुर्वर्षीयः सुनीलः जलात् उपरि उन्नेतुम् अशक्यः आसीत्। प्रेमचन्दः पुनः पुनः आक्रोशनं कृतवान् । एकेन हस्तेन सुनीलस्य केशपाशान् अन्येन हस्तेन तटे स्थितानि तृणानि गृहीत्वा स्थितवान् । साहाय्यार्थं कोऽपि आगच्छेत् इति तस्य निरीक्षा । गृहे सुनीलस्य अग्रजा अस्पष्टतया अनुजस्य आक्रोशनं श्रुतवती। कः आक्रोशति ? पश्यामि इति गृहात् बहिः आगतवती। सा आक्रोशनं सम्यक् श्रुतवती। सम्भ्रमेण सरः प्रति धावितवती । सुनीलस्य हस्तं गृहीत्वा उन्नीतवती। सुनीलस्य देहे अधिकं जलमासीत् अतः सः अस्वस्थः आसीत्। सा आक्रोशनं कृतवती। मार्गे गच्छन्तः जनाः अपि आगताः। सुनीलस्य प्रथमोपचारं कृतवन्तः। तस्य प्राणरक्षणं कृतवन्तः। यदि प्रेमचन्द्र न अद्रक्ष्यत् अथवा 'अहं कनिष्ठः मया एतत् कार्यं न साध्यम् अन्यान् आनयामि इति विचिन्त्य दूरम् अगमिष्यत् तर्हि सुनीलः जले गतासुः अभविष्यत्। प्रेमचन्दस्य समयप्रज्ञां धृतिं च निरीक्ष्य जनाः तस्य प्रशंसां कृतवन्तः। सुनीलस्य मातापितरौ प्रेमचन्दं “ शतं वर्षाणि जीव “ इति आशीर्वादं कृतवन्तः। अन्येषां प्राणरक्षणे आसक्तिः। यद्यपि तरणं न जानाति स्म तथापि दीर्घयष्टिसाहाय्येन उपरि उन्नेतुं शक्यते इति धीः, आक्रोशनेन जनाः आगच्छेयुः इति बुद्धिः, सुनीलस्य भारेण अहमपि जले पतेयम् तदा रक्षणम् असाध्यम् इति भावनया तटे स्थितानि तृणानि गृहीत्वा अन्येन हस्तेन सुनीलं गृहीतवान्। एतान् सर्वाण् अंशान् दृष्ट्वा भारतस्य बालकल्याणमण्डली एतं राष्ट्रसाहसप्रशस्त्यर्थं चितवती।

२५-१-१९८८ तमे दिने एषः स्वमातापितृभ्यां सह नवदेहल्यां प्रशस्तिं पदकं अन्यानि पारितोषिकानि च प्रधानमन्त्रिणः हस्ततः स्वीकृतवान्। २६-१-१९८८ तमे दिने गणरज्योत्सवस्य शोभायात्रायां अन्यैः साहसिबालैः सह गजारूढः भूत्वा तस्य शोभां द्विगुणीकृतवान्।

""व्व""

"https://sa.wikipedia.org/w/index.php?title=प्रेमचन्द_सिङ्ग&oldid=458697" इत्यस्माद् प्रतिप्राप्तम्