वन्दे मातरम्

वन्दे मातरम्, वन्दे मातरम् ,

सुजलां सुफलां मलयजशीतलाम्|

सस्यश्यामलां मातरम् |

वन्दे मातरम् |

शुभ्र-ज्योत्स्ना-पुलकित-यामिनीम्,

फुल्ल-कुसुमित-द्रुमदल-शोभिनीम् |

सुहासिनीं, सुमधुरभाषिणीम्,

सुखदां वरदां मातरम्।

वन्दे मातरम् |

-- बंकिम-चन्द्र-चट्टोपाध्यायाः

"https://sa.wikipedia.org/w/index.php?title=फलकम्:मुखपृष्ठ_विशेष&oldid=64992" इत्यस्माद् प्रतिप्राप्तम्