फलकम्:मुख्यपृष्ठं - सुभाषितम्

(फलकम्:मुख्यपृष्ठं/ सुभाषितम् इत्यस्मात् पुनर्निर्दिष्टम्)
मे २०२४
रविवासरः
१९
१५:५९ UTC
दूरीकरोति दुरितं विमलीकरोति

चेतश्चिरन्तनमघं चुलुकीकरोति
भूतेषु किञ्च करुणां बहुलीकरोति
सत्सङ्गतिः कथय किं न करोति पुंसाम्।

सु.भा. - सत्सङ्गतिप्रशंसा (९१/३०)

लोके सर्वेषां जनानां स्नेहिताः भवन्ति एव। तेषु स्नेहितेषु सज्जनानां संख्या तु न्यूना एव। यतः स्वार्थपराः एव अधिकाः सन्ति लोके। तथापि अस्माभिः सज्जनानां सहवासः एव करणीयः इति वदन् सुभाषितकारः तत्र कारणमपि वदति - सज्जनानां सहवासेन पुरुषाणां मनसि स्थिताः दुष्टाः विचाराः दूरं गच्छन्ति। मनः शुद्धं भवति। पुरा कृतं पापमपि भस्म भवति। अपि च प्राणिनां विषये दया अधिका भवति। अतः सज्जनानां स्नेहः मनुष्याणां किं वा न करोति ? अर्थात् सर्वविधानि मङ्गलानि अपि जनयति।