फलकम्:मुख्यपृष्ठं -आधुनिकलेखः

सोमनाथस्य मन्दिरम् वेरावळ
सोमनाथस्य मन्दिरम् वेरावळ

सोमनाथमन्दिरं गुजरातराज्यस्य पश्चिमभागे अर्थात् सौराष्ट्रे प्रभासपाटणपत्तने समुद्रतटे स्थितं भव्यमन्दिरं वर्तते। समुद्रस्य तरङ्गाः सोमनाथस्य पादक्षालनेच्छया पौनःपुन्येन आगच्छन्तः तस्य पादपद्मे लीनाः भवन्ति। सोमनाथः द्वादशज्योतिर्लिङ्गेषु प्रप्रथममं महत्तमञ्च ज्योतिर्लिङ्गं वर्तते। सोमेश्वरः इत्यप्यस्य नामान्तरम्। चन्द्रः (सोमः) अस्य लिङ्गस्य स्थापनां कृतवान्। अत्रैव कपिलानदी-सरस्वतीनदी-हिरण्यानदीनां सङ्गमः भवति। अत एतद् क्षेत्रं त्रिवेणीक्षेत्रमिति नाम्नापि प्रसिद्धम्। पुराणेषूल्लेखोस्ति यत् त्रेतायुगे वैवस्वतमन्वन्तरे शुक्लपक्षस्य तृतीयायां अस्य मन्दिरस्य स्थापना बभूव। अत्रैव चन्द्रः तपः कृतवानासीत्। एतल्लिङ्गं चन्द्र एव अस्थापयत्। (अधिकवाचनाय »)