फलकम्:मुख्यपृष्ठं - प्रमुखः लेखः

साहित्यदर्पणम् विश्वनाथेन रचितः ग्रन्थः। पाण्डित्यपूर्णग्रन्थोऽयम् अलङ्कारस्य विषये वर्तते। सूत्रवृत्त्युदाहरणारुपेणा त्रिधा विभक्तः। अत्र च विद्यमानाः कारिकाः , वृत्तयः एतेनैव रचिताः। साहित्यदर्पणकारः कविराजो विश्वनाथः उत्कलप्रदेशे ब्राह्मणकुले जन्म लेभे। तस्य प्रपितामहो नारायणः, चण्डीदासः पितामहानुजः, चन्द्रशेखरश्च पिताऽऽसीत्।

श्री चन्द्रशेखरमहाकविचन्द्रसूनु
श्रीविश्वनाथकविराजकृतं प्रबन्धम्।
साहित्यदर्पणममुं सुधियो विलोक्य
साहित्यतत्त्वमखिलं सुखमेव वित्त ॥ (सा. दर्पण- १०-१००)

अलंकारसाहित्येतिहासेन्यतमो ग्रन्थः तावत् साहित्यदर्पणम् एकः एवास्ति। दशपरिच्छेदात्मकोऽयं ग्रन्थः। (अधिकवाचनाय »)