फलकम्:Main Page/Cards/Proverb
< फलकम्:Main Page | Cards
नरस्य शोकदग्धस्य सुहृद्दर्शनमौषधम् ॥
प्रायः लोके सर्वेषाम् अपि स्नेहिताः भवन्ति एव। बान्धवाः बहवः स्युः नाम, तथापि मित्राणि सन्ति चेत् एव तस्य नरस्य जीवनं सुखि जीवनम्। यतः यस्य मित्राणि भवन्ति तस्य जीवने सर्वविधसौख्यम् अपि भवति। मनुष्यस्य कष्टसमये मित्रं सान्त्वनवचनै:, अन्येन प्रकारेण वा साहाय्यम् आचरति। तत्रापि रुग्णावस्थायां, दारिद्र्यदशायां, देशान्तरनिवासप्रसङ्गे, दु:खावस्थायां च यदि मित्राणां दर्शनं भवति तर्हि तत् औषधमिव सर्वमपि कष्टं दु:खं च परिहरति। |