फलकसम्भाषणम्:शिखरं गच्छतु

Rinku Sharma

• अभिप्रेरणाधिगमयो: संवंध:

शिक्षणाधिगम प्रक्रियायां अभिप्रेरणाया: महत्वपूर्ण स्थानमस्ति। अभिप्रेरणाया: समुचित प्रयोगेण अध्यापक: शिक्षणाधिगम प्रक्रियायां सम्यग् रूपेण संपादनं कर्तुं शक्यते । यस्य बालकस्य कृते अभिप्रेरणा दत्ता स्यात् चेत् बालक: ज्ञानार्जनाय तत्परा: भवन्ति। तथा च ते शीघ्रतया, सरलतया, सहजतया, सुगमतया, अधिगमे दक्षा: भवन्ति तदतिरिक्त अ- अभिप्रेरित बालकानां कृते नवीन वस्तूनां ज्ञाने रुचि नास्ति । तथा ते अधिगमे काठिन्यं अनुभवन्ति । अध्यापक: आवश्यकतानुसारेण विविध अभिप्रेरकाणां प्रयोगेण बालानां रुचि वर्धनाय उद्देश्यानां च प्राप्तये च प्रोत्साहनों ददाति। अतः अभिप्रेरणां बिना अधिगम: सम्यग् न भवति। कक्षाशिक्षणातिरिक्त अन्य शैक्षिक परिस्थितौ अपि छात्राणां व्यवहार नियंत्रणाय अभिप्रेरणाया: महत्वपूर्ण स्थानं अस्ति। • अभिप्रेरणाया: अधिगमे महत्वम


1. अभिप्रेरणा व्यवहारस्य पथप्रदर्शनं करोति- अभिप्रेरणा व्यक्ते: व्यवहारे परिवर्तनं करोति। तेन व्यक्ते: आत्मसंतोष: भवति। 2. अभिप्रेरणा व्यवहारे शक्तिं संचरति - अभिप्रेरणा छात्राणां अधिगमे शक्तिं ददाति। दण्ड, पुरस्कारादि प्रेरणा: अधिगमे लाभप्रदा: वर्तन्ते। 3. ध्यान केंद्रीकरणे सहाय्यं ददाति - अभिप्रेरणा छात्राणां अभिप्रेरित्वा पाठ्यविषये ध्यानाकर्षणं कृत्वा केंद्रीकरणं करोति। 4. रुचि वर्धयति - अभिप्रेरणा विद्यार्थिनां रुचिं उत्पादयति। 5. चरित्र निर्माणे सहाय्यं ददाति- अध्यापक: विद्यार्थिनां उत्तमगुणान् आदर्शान् च प्राप्तये प्रेरणा ददाति। 6. सामाजिक गुणानां विकास:- अध्यापक: अभिप्रेरणया एव छात्रेषु सामुदायिक सामाजिक गुणानां विकास: करोति।


                विद्यालयेषु यत्किमपि ज्ञानादिकं प्रदीयते, शिक्षणं वा क्रियते तस्य साक्षात्सम्बन्ध: अभिप्रेरणेन वर्तते। बालकानां मानसिकविकासे प्रेरणाया: अन्यतमं महत्वम वर्तते । सफलस्य शिक्षणस्य कृते अभिप्रेरणस्य तत्वमनिवार्यं भवति। वस्तुत: प्रेरणा हि समस्तानामधिगमक्रियाणां स्रोतोभूता वर्तते।
               बालकानां शिक्षायां बुभुक्षा – पिपासा- प्रभृतीनां शारीरिकानाभिप्रेरकानां विशिष्टं स्थानं वर्तते। अत्र शारीरिकै: अभिप्रेरकै: सह अर्जिता:, सामाजिका: वैयक्तिकाश्च अभिप्रेरका: अपि स्वकीयं महत्वं बिभर्ति। यतोहि जनस्य शिक्षायामुदरपूर्त्या सह सामाजिकप्रतिष्ठाप्रभृतिप्रेरका: अपि सहायका: भवन्ति। शिक्षणे अभिप्रेरणस्य प्रयोगं शिक्षक: पुरस्कारदण्डयो: प्रशंसानिन्दयोश्च माध्यमेन विधाय परिणामज्ञापने अपि  कर्तुं शक्नोति। कक्ष्यायां स छात्रेषु स्पर्धाया:, प्रतियोगिताया:, सहकारितायाश्च भावनाया अभ्युदयं कृत्वा अधिगमे प्रोत्साहनं दातुं शक्यते।  एवमभिप्रेरणया शिक्षणे उत्साह: उत्पाद्यते। एतेन छात्रेषु शक्तिसंचालनं भवति तथा च शक्तिर्लक्ष्यप्राप्तिपर्यन्तं प्रचलति अभिप्रेरणा।

शिक्षणे अभिप्रेरणम्

शिक्षणे अधिगमे वा अभिप्रेरणमं महत्वपूर्णं भवति । वस्तुत: अभिप्रेरणमं शिक्षणे केंद्रभूतमं वर्तते। शिक्षक: सदैव छात्राणां कृते प्रेरणां दातुं प्रवृत्तो भवति। से कथम् अभिप्रेरणे शक्तो भवेत् ?

एतत्कृते केचन प्रस्तावा: प्रस्तूयन्ते। • बालकेंद्रितं दृष्टिकोणं- शिक्षणं तु बालकस्यैव भवति । शिक्षकास्तु शिक्षणे सहायतां कुर्वन्ति। अत एव यत्किंचिदपि शिक्ष्यते,तद्बालकस्य योग्यतासु, रुचिसु, पूर्वानुभवेषु चाधारितं स्यात्। शिक्षक एतज्जानीयात् यत् शिशु: नूतनानुभवं प्राप्तुं शक्तो वर्तते न वा इति। तस्य सामर्थ्यं परीक्ष्ये व शिक्षक: शिक्षणे उद्यतो भवेत्। • नतनज्ञानस्य सम्बंध: पूर्वज्ञानेन स्थापनम्- अनुभवस्तु महान् गुणो वर्तते। पूर्वानुभवं नूतनज्ञानस्य आधारो भवितुं अर्हति। नूतनस्य ज्ञानस्य सम्बंध: पूर्वज्ञानेन स्थाप्यते चेदधिगमो रुचिकरो जायते। एतेन छात्र: अभिप्रेरितो भूत्वा शिक्षणे साफल्यं प्राप्नोति। • लक्ष्याणामुद्देश्यानांच निश्चय:- उद्देश्यमनुद्दिश्य न मंद: अपि प्रवर्तते इति न्यायेन शिक्षणोद्देश्यानां शिक्षायाश्च लक्ष्याणां परिज्ञानमपरिहार्य भवति।निश्चितानां लक्ष्याणामुद्देश्यानांच प्राप्तये उपयुक्ता: प्रयासा: क्रियन्ते। अत एवोद्देश्यानां लक्ष्याणां च परिज्ञानं श्रेयस एव भवति।


• अधिगम प्रक्रियायां अभिप्रेरणाया: कार्याणि

अभिप्रेरण अधिगमप्रक्रियायां त्रिधा कार्यं करोति

1. अभिप्रेरण व्यवहाराणां शक्तिं प्रददाति।– अभिप्रेरण बालकेषु शक्तिं उत्पादयति,तथा तो क्रियाशीलं कारयति। शारीरिकाभिप्रेरका: यथा वुभुक्षा, पानं, कार्यं च बालकेषु क्रियाशीलतां उत्पादयति। 2. अभिप्रेरण व्यवहारस्य निश्चित दिशा प्रददाति- अभिप्रेरण बालकानां व्यवहारे अपेक्षित दिशा निर्देशनं करोति । इदं बालकानां व्यवहारस्य लक्ष्यं निर्देशयति। 3. अभिप्रेरणे व्यवहार: चयनात्मक: भवति- इदं बालकानां एकस्य निश्चित व्यवहारस्य चयने सहाय्यं ददाति।

Start a discussion about फलकम्:शिखरं गच्छतु

Start a discussion
पृष्ठ "शिखरं गच्छतु" पर वापस जाएँ।