फ्रान्सिस् गाल्टन्
(कालः – १६. ०२. १८२२ तः १७. ०१. १९११)
फ्रान्सिस् गाल्टन् | |
---|---|
जननम् |
Birmingham, England | १६ १८२२
मरणम् |
स्क्रिप्ट त्रुटि: "death_date_and_age" फंक्शन मौजूद नहीं है। Haslemere, Surrey, England |
वासस्थानम् | England |
देशीयता | English |
कार्यक्षेत्राणि | Anthropology and polymathy |
संस्थाः |
Meteorological Council Royal Geographical Society |
मातृसंस्थाः |
King's College London Cambridge University |
संशोधनमार्गदर्शी | William Hopkins |
शोधच्छात्राः | Karl Pearson |
विषयेषु प्रसिद्धः |
Eugenics The Galton board Regression toward the mean Standard deviation Weather map |
प्रमुखाः प्रशस्तयः |
Linnean Society of London's Darwin–Wallace Medal in 1908. Copley medal (1910) |
अयं सर् फ्रान्सिस् गाल्ट्न् (Sir Francis Galton) सुसन्ततेः संशोधकः । यमलयोः जन्मनः महत्त्वं ज्ञापितवान् अयं सर् फ्रान्सिस् गाल्ट्न् प्रख्यातस्य जीवविज्ञानिनः चार्ल्स् डार्विनस्य बन्धुः अपि । सः १८२२ तमे वर्षे फेब्रवरिमासस्य १६ दिनाङ्के बर्मिङ्ग् ह्याम् इति प्रदेशे जन्म प्राप्नोत् । १८४४ तमे वर्षे केम्ब्रिड्ज्–नगरस्थात् “ट्रिनिटि” महाविद्यालयात् वैद्यपदवीं प्राप्नोत् । अयं सर् फ्रान्सिस् गाल्ट्न् पवनविज्ञानं मानवविज्ञानं च आसक्त्या अधीतवान् । १८४० दशकस्य उत्तरार्धे आफ्रिका–देशे प्रवासम् अकरोत् । प्रवासस्य अनुभवान् १८५३ तमे तथा १८५५ तमे वर्षे अलिखत् । तस्य लेखस्य निमित्तं “रायल्” जियोग्राफिकल् सोसैटि”तः स्वर्णपदकम् अपि प्राप्तम् । पवनविज्ञाने आसक्तः अयं सर् फ्रान्सिस् गाल्ट्न् वायुस्थितेः मानचित्रस्य सज्जीकरणे इदानीं विद्यमानस्य आधुनिकस्य क्रमस्य संशोधनम् अकरोत् । “प्रतिचक्रवातः” (Anti Syclon) इत्यस्य पदस्य स्रष्टा अपि अयम् एव सर् फ्रान्सिस् गाल्ट्न् एव । उत्तमस्य शान्तस्य वातावरणस्य लक्षणानि अपि विवृतवान् सः । सः सर् फ्रान्सिस् गाल्ट्न् १८६३ तमे वर्षे “मीटियोरोग्राफिक्” इति पुस्तकम् अपि अलिखत् । चार्ल्स् डार्विनस्य “वंशानां जननम्” (Origin of spicies) इति पुस्तकं पठित्वा अयं सर् फ्रान्सिस् गाल्ट्न् अपि मानवविज्ञाने आसक्तिं प्राप्नोत् ।
अयं सर् फ्रान्सिस् गाल्ट्न् अङ्गुलीचिह्नं स्थिरं भवति इति प्रत्यपादयत् । अङ्गुलीचिह्नस्य अभिज्ञानस्य सुस्पष्टां पद्धतिम् अपि सः निरूपितवान् । अनेन संशोधनेन १९११ तमवर्षाभ्यन्तरे ब्रिट्न् तथा अमेरिका–संयुक्त–संस्थानेषु बहूनाम् अपराधीनाम् अङ्गुलीचिह्नद्वारा एव ग्रहणं साध्यम् अभवत् । १८६९ तमे वर्षे अयं सर् फ्रान्सिस् गाल्ट्न् मानवानां मानसिकं सामर्थ्यम् अपि विभिन्नेषु स्तरेषु भवति इति प्रत्यपादयत् । तत् सामर्थ्यम् अपि आनुवंशिकम् इत्यपि संशोधितवान् । उत्तमं मानसिकं सामर्थ्यं येषाम् अस्ति तादृशाणां स्त्रीपुरुषाणां द्वारा उत्तमस्य सन्ततेः एव अनुवर्तनं शक्यते इत्यपि प्रत्यपादयत् । १८८३ तमे वर्षे तादृश्याः पद्धतेः “सन्ततिविज्ञानम्” इति नामकरणम् अपि अकरोत् । अयं सर् फ्रान्सिस् गाल्ट्न् १९०९ वर्षे “सर्” इति बिरुदम् अपि प्राप्नोत् । सः ८९ तम् वयसि १९११ वर्षे जनवरिमासस्य १७ दिनाङ्के इहलोकम् अत्यजत् ।
बाह्यसम्पर्कतन्तुः
सम्पादयतुविकिपीडिया-जालस्य सहपरियोजनाभ्यः फ्रान्सिस् गाल्टन् एतस्मिन् विषये अधिकं विवरणं प्राप्यताम् -
| |
चित्राणि एवम् अन्याः सञ्चिकाः कॉमन्स् मध्ये | |
सूक्तयः विकिसूक्तीषु | |
ग्रन्थः विकिस्रोतसि |
- Galton's Complete Works at Galton.org (including all his published books, all his published scientific papers, and popular periodical and newspaper writing, as well as other previously unpublished work and biographical material).
- Portraits of Galton from the National Portrait Gallery (United Kingdom)
- O'Connor, John J.; Robertson, Edmund F.. "फ्रान्सिस् गाल्टन्". MacTutor History of Mathematics archive. University of St Andrews..
- Biography and bibliography in the Virtual Laboratory of the Max Planck Institute for the History of Science
- History and Mathematics
- Human Memory – University of Amsterdam Archived २०१२-०२-०४ at the Wayback Machine website with test based on the work of Galton
- Catalogue of the Galton papers held at UCL Archives
- "Composite Portraits", by Francis Galton, 1878 (as published in the Journal of the Anthropological Institute of Great Britain and Ireland, volume 8).
- "Enquiries into Human Faculty and its Development", book by Francis Galton, 1883.