फ्रेडरिक क्यास्पर् वुल्फ्
(कालः – १८. ०१. १७३३ तः २२. ०२. १७९४)
फ्रेडरिक क्यास्पर् वुल्फ् | |
---|---|
Caspar Friedrch Wolff, a silhouette by F. Anting (1784), one of the two known portraits of Wolff | |
जननम् |
18 January 1733 Berlin, Brandenburg |
मरणम् | 22 February 1794 |
देशीयता | German |
कार्यक्षेत्राणि | physiology |
मातृसंस्थाः | University of Halle |
विषयेषु प्रसिद्धः | embryology |
हस्ताक्षरम् |
अयं फ्रेडरिक क्यास्पर् वुल्फ् (Friedrich Casper Wolff) आधुनिकस्य भ्रूणविज्ञानस्य संस्थापकः । एषः १७३३ तमे वर्षे जनवरिमासस्य १८ दिनाङ्के जर्मन्-देशस्य बर्लिन्-नगरे जन्म प्राप्नोत् । अस्य पिता सौचिकः आसीत् । तथापि सः वैद्यविज्ञानस्य अध्ययनं कृत्वा वैद्यपदवीं प्राप्नोत् । १७५९ तमे वर्षे २१ वर्षीयः अयं फ्रेडरिक क्यास्पर् वुल्फ् ७ वर्षाणां कालावधेः युद्धे शस्त्रचिकित्सकः आसीत् । तदवसरे सः जीविनां वर्धनस्य विषये क्रान्तिकारकं किञ्चित् पुस्तकं प्राकाशयत् । तस्मिन् पुस्तके तेन भ्रूणविषये यत् लिखितं तत् समकालीनाः विज्ञानिनः न अङ्गीकृतवन्तः । तदनन्तरं सः रष्यादेशस्य चक्रवर्तिन्याः द्वितीय–क्याभरीनायाः आमन्त्रणं पुरस्कृत्य तत्र गत्वा सैण्ट् पीटर्स् बर्ग् नामके प्रदेशे विद्यमानां विज्ञानसंस्थां प्राध्यापकरूपेण प्राविशत् ।
एषः फ्रेडरिक क्यास्पर् वुल्फ् “सामान्यैः अङ्गांशैः एव विशिष्टानि अङ्गानि निर्मितानि भवन्ति” इति प्रत्यपादयत् । तदर्थं विशिष्टानि तर्कबद्धानि उदाहरणानि अपि प्रादर्शयत् । “सर्वस्य अपि सस्यस्य अङ्कुरे सामान्याः एव अङ्गांशाः भवन्ति । अग्रे तेषु अङ्गांशेषु केचन अङ्गांशाः पुष्पाणि भवन्ति, केचन पर्णानि भवन्ति, अन्ये केचन सस्यस्य अन्यानि अङ्गानि भवन्ति । तत् पूर्वम् एव अङ्कुरस्थितौ न ज्ञायते । एवम् एव सर्वेषु अपि प्राणिषु प्रचलति" इति अयं फ्रेडरिक् क्यास्पर् वुल्फ् प्रत्यपादयत् । सः जीवनस्य अन्तिमे काले दृष्टिदोषेण पीडितः अभवत् । १७९४ तमे वर्षे फेब्रवरिमासस्य २२ तमे दिनाङ्के इदानीन्तने लेनिन् ग्र्याड् प्रदेशे दिवं गतः । तेन फ्रेडरिक क्यास्पर् वुल्फेन कृतानि संशोधनानि अद्यापि वैद्यजगतः मार्गदर्शकाणि सन्ति । भ्रूणे मूत्रकोशस्य उदयस्य विषयं सः विस्तरेण विवृतवान् आसीत् । तदर्थम् इदानीम् अपि तस्य अङ्गस्य नाम "वुल्फ्” इत्येव उच्यते ।
"