बङ्गालविभजनम्
क्रि.श.१९०५तमे वर्षे वैस्राय्, गवर्नर् जनरल् लार्ड् कर्जन् च (१८९९-१९०५) वङ्गदेशस्य इत्युक्ते बङ्गालप्रन्तस्य प्रशासनात्मक्मिकायाः सौकर्यर्थे द्विधाविभागः भवेत् इति आदिष्टवन्तौ । कारणं तु बृहत्प्रदेशस्य वङ्गदेशस्य जनसङ्ख्या अधिका आसीत् । बङ्गालस्य हिन्दुपण्डितानां प्रभावः राष्ट्रस्य प्रान्तीयस्य च राजकीये तेषां प्राबल्यम् आसीत् । अतः ब्रिटिष् सर्वकरेण समग्रः बङ्गालः वङ्गः भङ्गः च इति द्विधा विभक्तः । अस्सामस्य पूर्वबङ्गालस्य च डाका राजधानी, पश्चिमबङ्गालस्य कल्कत्ता (आधुनिका कोल्कता) राजधानी अभवताम् । अविचार्य वङ्गभङ्गस्य कारणेण बङ्गालीयाः कोपाविष्टाः । आङ्ग्लसर्वकारः भारतीयानाम् अनुमतिं न अभिप्रायमपि न आपृच्छत् । एतत् आङ्ग्लानां विभजनं प्रशासनम् इति तन्त्रानुगुणमेवास्ति इति ज्ञात्वा जनाः आन्दोलनम् प्रारभन्त । पत्रिकाः विरुध्य लेखान् प्रकाशितवत्यः । ततदन्तरं भारतीयकाङ्ग्रेस् स्वदेशीयम् आक्रोशं आरभ्य ब्रिटिष् पदार्थानां निर्बन्धम् अघोषयत् । तस्मिन् कालखण्डे रवीन्द्रनाथ ठगोर् महोदयः स्वरचितं गीतं (पुनीतमेतत् वङ्गभूमिः वङ्गजलम्... इत्यर्थे) गायन् जनानां हस्ते राक्षां बन्धयन् नायकः भूत्वा समचरत् । तस्मिन् दिने वङ्गस्य कस्यचिदपि गृहे जुल्लिका न ज्वालिता । भारतीयकाङ्ग्रेस् पक्षस्य नेतृत्वे आरब्धा ब्रिटिश् उत्पादनस्य बहिष्कारान्दोलनं सपलम् अभवत् । एतत् प्रथमस्वातन्त्र्यसङ्ग्रामस्य अनन्तरं सम्भूतम् अतिबृहत् विरोध्यान्दोलनम् । अनेन आङ्ग्लविरोधस्य सर्वशक्तीः एकपदे एव आङ्ग्लेषु प्रयुक्तमिव अभवत् । काश्चन विस्फोटकस्य घाटनाः अभवन् । मुस्लिमानां कश्चिन्नियोगः वैसराय् लार्ड् मिण्टो (क्रि.श.१९०५ - १०) इत्येनं दृष्ट्वा अग्रे सम्भाव्यमानस्य सांविधानिकप्रगतेः विषये मुसल्मानजनानां विशेशानुकूल्यं प्रकल्पयितुं प्रार्थनाम् अकुर्वन् ।