बारामण्डलम्
राजस्थानराष्ट्रे एक: मण्डल:
(बारामण्डल इत्यस्मात् पुनर्निर्दिष्टम्)
बारामण्डलं (हिन्दी: बाराँ जिला, आङ्ग्ल: Baran district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति बारानामकं नगरम् ।
भौगोलिकम्
सम्पादयतुबारामण्डलस्य विस्तारः ६९९२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे मध्यप्रदेशराज्यं, पश्चिमे कोटामण्डलम्, उत्तरे मध्यप्रदेशराज्यं, दक्षिणे झालावाडमण्डलम् अस्ति । अस्मिन् मण्डले ८९५.२ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले पञ्च नद्यः प्रवहन्ति । ताः - काली सिन्ध्, पार्वती, पडवन्, अन्धेरी, बाणगङ्गा च ।
जनसङ्ख्या
सम्पादयतु२०११ जनगणनानुगुणं बारामण्डलस्य जनसङ्ख्या १२,२३,९२१ अस्ति (६,३५,४९५ पुरुषाः, ५,८८,४२६ महिलाश्च) । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १७५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १७५ जनाः । अत्र पुं-स्त्री अनुपातः १०००-९२६ अस्ति ।
उपमण्डलानि
सम्पादयतु- अन्तः
- अत्रु
- बारा
- छबरा
- छिपबरोद
- खेरलीगञ्ज
- माङ्गरोल
वीक्षणीयस्थलानि
सम्पादयतु- शाहबाद-दुर्गः
- नगरकोट-माताजी
- सीता-बाडी
- शेरगढ-दुर्गः
- नहरगढ-दुर्गः
- भनवरगढ-दुर्गः
- बिलासगढ
- भण्ड-देवरा
- रामगढ-माताजी
- कपिलधारा
- काकोनी
- सौरसन
- शनिधाम
- श्रीजी-मन्दिरम्
- ताड का बालाजी, साकेतधाम
- मणिहरमहादेवः
- प्यारेरामजी-मन्दिरम्