(कालः – १९०२ तः १९९२)

बार्बर मेक्लिन्टाक्
जननम् (१९०२-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ६-१६)१६ १९०२
Hartford, Connecticut, USA
मरणम् २ १९९२(१९९२-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ९-०२) (आयुः ९०)
Huntington, New York, USA
देशीयता American
कार्यक्षेत्राणि Cytogenetics
संस्थाः University of Missouri
Cold Spring Harbor Laboratory
मातृसंस्थाः Cornell University
विषयेषु प्रसिद्धः Work in genetic structure of maize
प्रमुखाः प्रशस्तयः Nobel Prize in Physiology or Medicine (1983)


बार्बर मेक्लिन्टाकया उपयुक्तं सूक्ष्मदर्शकं तथा यावानलश्च

एषा बार्बर मेक्लिन्टाक् (Barbara Mcclintock) प्रसिद्धा महिला आनुवंशिकशास्त्रस्य विज्ञानिनी, तथा च नोबेल्–पुरस्कारं प्राप्तवती प्रथमा विज्ञानिनी । एषा १९०२ तमे वर्षे अमेरिकादेशे जन्म प्राप्नोत् । एषा बार्बर मेक्लिन्टाक् १९२७ तमे वर्षे "कार्नेल्”–विश्वविद्यालयतः सस्यविज्ञाने डाक्टरेट्पदवीं प्राप्नोत् । महिला इति कारणात् एव उद्योगे बहुविधानि कष्टानि, अनादरः च सम्मुखीकरणीयः अभवत् अनया बार्बर मेक्लिन्टाकया । तस्मात् कारणात् जुगुप्सिता सा बार्बर मेक्लिन्टाक् कार्नेल्–विश्वविद्यालये क्रियमाणं संसोधनं मध्ये एव परित्यज्य "मिस्सोरि”–विश्वविद्यालयम् अध्यापिकारूपेण प्राविशत् । तदनन्तरं १९४१ तमे वर्षे "हार्बर्”–विश्वविद्यालयं प्रविश्य संशोधनस्य अनुवर्तनम् अकरोत् । एषा बार्बर मेक्लिन्टाक् सस्यानां तथा प्राणिनां गुणलक्षणानि, जीवकोशस्य कार्याणि च निरूपयन्तः गुणाणवः (जीन्स्) पूर्वसूचनां विना एव अनिर्दिष्टरीत्या कार्यं निर्वहन्ति इति संशोधितवती । तान् गुणाणून् सा "कूर्दनगुणाणवः” (Jumping Jeens) इति अवदत् । एतस्य संशोधनस्य निमित्तं १९८३ तमे वर्षे सा बार्बर मेक्लिन्टाक् "नोबेल्”-पुरस्कारम् अपि प्राप्नोत् ।

एतस्याः बार्बर मेक्लिन्टाकायाः संशोधनपर्यन्तं गुणाणवः वर्णातन्तून् (क्रोमोजोन्स्) अवलमबन्ते इति चिन्तितम् आसीत् । एषा गुणाणवः हारे योजितानि मौक्तिकानि इव भवन्ति इति विवृणोत् । तस्य संशोधनस्य नाम "मोबैल् जेनिटिक् एलिमेण्ट्” इति अवदत् च । एषा बार्बर मेक्लिन्टाक् एतत् संशोधनं १९४० तमे वर्षे न्यूयार्कदेशस्य कोल्ड्स्ट्रिङ्ग् हार्बर्–प्रान्तस्य वाशिङ्ग्टन् डि.सि. नगरे विद्यमाने कार्निजिसंस्थायाः आनुवंशिकप्रयोगालये आरब्धवती । सा संशोधनार्थं यावानलं (Indian Corn) चितवती आसीत् । प्रथमं यावानलस्य वर्णातन्तून् अभिज्ञाय तेषां वर्णपूरणं कृत्वा भिन्नातायाः अभिज्ञानस्य तन्त्रं निरूपयत् । तस्याः बार्बर मेक्लिन्टाकायाः संसोधनावसरे यावानलस्य पर्णानि तथा बीजानि वर्णानां ग्रहणे साम्यतां प्रादर्शयन् । विरलतया भिन्नता अपि प्रदर्शिता । एवं भिन्नातायाः अथवा उत्परिवर्तनस्य वा कारणं गुणाणवः एव इति सा प्रतिपादयत् । गुणाणूनां तादृशस्य व्यवहारस्य कारणं परिसरः अपि भवति इति सा संशोधितवती । अतिवृष्टिः अनावृष्टिः चापि प्रभावं जनयतः इत्यपि सा संशोधितवती । एवं कोशकेन्द्रे विद्यमानानां सर्वेषां वर्णतन्तूनाम् उपरि, गुणाणूनाम् उपरि यः प्रभावः परिसरस्य सञ्जायते तं सा "जिनोमिक् शाक्” इति अवदत् । एतत् सम्शोधनं यथा यावानले अन्वितं भवति तथैव उच्चवर्गीयाणां जीवजातीनां विषये अपि अन्वितं भवति । एषा बार्बर मेक्लिन्टाक् १९९२ तमे वर्षे ९० तमे वयसि इहलोकम् अत्यजत् ।

बाह्यसम्पर्कतन्तुः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=बार्बर_मेक्लिन्टाक्&oldid=480647" इत्यस्माद् प्रतिप्राप्तम्