इयं बिम्बी भारते वर्धामानः कश्चन लताविशेषः । अस्याः फलं (बिम्बफलम्) तु भारते सर्वत्र शाकत्वेन उपयुज्यते । दक्षिणभारते अस्याः फलस्य उपयोगः अत्यधिकः । भारतस्य सर्वेषु प्रदेशेषु इयं बिम्बी वर्धते । इयम् आहारत्वेन यथा उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते । अस्याः बिम्ब्याः मूले क्षारः, शर्करा, निर्यासः, मेदः, कार्बोनिक आम्लम् इत्यादयः १६ अंशाः भवन्ति । अस्याः पर्णं, फलं चापि आहारत्वेन उपयुज्यते । मूलं, पर्णं चापि औषधत्वेन उपयुज्यते ।

बिम्बिलता

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Cucurbitales
कुलम् Cucurbitaceae
वंशः Coccinia
जातिः C. grandis
द्विपदनाम
Coccinia grandis
(L.) J.Voigt
बिम्बफलानि

इयं बिम्बी भारते वर्धामानः कश्चन लताविशेषः । अस्याः फलं (बिम्बफलम्) तु भारते सर्वत्र शाकत्वेन उपयुज्यते । दक्षिणभारते अस्याः फलस्य उपयोगः अत्यधिकः । भारतस्य सर्वेषु प्रदेशेषु इयं बिम्बी वर्धते । इयम् आहारत्वेन यथा उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते । अस्याः बिम्ब्याः मूले क्षारः, शर्करा, निर्यासः, मेदः, कार्बोनिक आम्लम् इत्यादयः १६ अंशाः भवन्ति । अस्याः पर्णं, फलं चापि आहारत्वेन उपयुज्यते । मूलं, पर्णं चापि औषधत्वेन उपयुज्यते ।

इतरभाषाभिः अस्याः बिम्ब्याः नामानि सम्पादयतु

इयं बिम्बी आङ्ग्लभाषया..... इति उच्यते । अस्याः सस्यशास्त्रीयं नाम अस्ति Coccinia Grandis इति । हिन्दीभाषया इयं “कुन्दरू” इति, तेलुगुभाषया“दोण्डकायि” इति, तमिळ्भाषया “कूबयिकायि” इति, मलयाळभाषया“गोडी तोण्डली” इति, कन्नडभाषया“तोण्डे कायि” इति च उच्यते ।

आयुर्वेदस्य अनुसारम् अस्याः बिम्ब्याः प्रयोजनानि सम्पादयतु

अस्याः बिम्ब्याः रसः तिक्तः । अस्याः गुणः लघु, रूक्षः, तीक्ष्णः च । अस्याः आभ्यन्तरः उपयोगः एव अधिकः । १. अस्याः बिम्ब्याः अपक्वं फलं मुखे जातान् व्रणान् (पिटकान्) निवारयति । २. अस्याः पर्णस्य स्वरसः व्रणेषु उपयुज्यते । स्वरसः २ – ६ चमसमितं सेवितुं शक्यते । ३. इयं बिम्बी अग्निमाद्यं, कामलारोगं, रक्तविकारं च शमयति । ४. बिम्ब्याः उपयोगः पीनसे, कासे, यकृत् – विकारे च हितकरः । ५. बिम्बी श्वासावरोधे, प्रमेहविशेषत्वेन मधुमेहे च उपयुज्यते ।

"https://sa.wikipedia.org/w/index.php?title=बिम्बिलता&oldid=431964" इत्यस्माद् प्रतिप्राप्तम्