बीकानेर
बीकानेर (हिन्दी: बीकानेर, आङ्ग्ल: Bundi) राजस्थानराज्ये स्थितस्य बीकानेरमण्डलस्य केन्द्रम् अस्ति ।
बीकानेर बिकाणो | |
---|---|
नगरम् | |
लक्ष्मीनिवासराजगृहम्, बीकानेर | |
देशः | भारतम् |
राज्यम् | राजस्थानम् |
मण्डलम् | बीकानेर |
Founded by | Rao Bikaji |
Area | |
• Total | २७० km२ |
Elevation | २४२ m |
Population (2008) | |
• Total | ७,२३,९८२ |
• Density | १,९६०/km२ |
Languages | |
• Official | हिन्दी |
Time zone | UTC+5:30 (IST) |
PIN |
3340XX |
Telephone code | +91 151 |
Vehicle registration | RJ-07 |
Website | http://bikaner.nic.in |
राजस्थानराज्ये उत्तरभागे मरुभूमिप्रदेशे स्थितम् एतत् नगरम् राजगृहैः दुर्गैः शिल्पैः च प्रसिद्धम् अस्ति रावबिकाजी महोदयः क्रिस्ताब्दे १४८८ तमे वर्षे एतत् नगरं निर्मितवान् । नगरं परितः उन्नताः भित्तयः सन्ति । नगरस्य मुख्यम् आकर्षणं जुनागडदुर्गमस्ति । राजा रायसिङ्गः क्रिस्ताब्दे १५८८ तः १५९३ तमवर्षावधौ एतत् दुर्गं निर्मितवान् । दुर्गं ९८६ मीटरदीर्घं, ३७ वीक्षकस्थानैः युक्तं च अस्ति । द्वारद्वयमस्ति । एक सूरजपोल् इति प्रसिद्धम् अस्ति । दुर्गे चन्द्रमहल्, फूलमहल्, कर्णमहल्, रङ्गमहल् विजयमहल् इत्यादीनि सन्ति । राजगृहाणि सुन्दराणि सन्ति । एतेषु आयुधसङ्ग्रहः सभाङ्गणं राज्ञाम् आस्थानम् इत्यादिकानि सन्ति । दुर्गानिवास, गङ्गानिवास इति द्वे सभाङ्गणे विशिष्टौ स्तः । एतेषां पुरतः रक्तवालुकमये प्रदेशे शिल्पानि सन्ति । रक्तदुर्गे राजानः सपरिवारं वसन्ति स्म । रक्तवालुकाशिलाभिः निर्मिते रक्तदुर्गे छायाचित्राणां प्रदर्शनालयः आयोजितः अस्ति ।
गैलरी
सम्पादयतुवाहनमार्गः
सम्पादयतुजयपुर-तः ३७९ कि.मी दूरे तिष्ठति इदं नगरम् । बिकानेरसमीपे ३३. कि.मी दूरे देशनोकनामकं मूषकाणां मन्दिरम् अस्ति । एतत् कारनीदेवीमन्दिरमिति प्रसिद्धम् अस्ति ।