बुरहानपुरमण्डलम्
बुरहानपुरमण्डलम् ( ( शृणु) /ˈbʊrəhɑːnəpʊrəməndələm/) (हिन्दी: बुरहानपुर जिला, आङ्ग्ल: Burhanpur district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य इन्दौरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति बुरहानपुरम् इति नगरम् ।
बुरहानपुरमण्डलम् Burhanpur District | |
---|---|
बुरहानपुर जिला | |
बुरहानपुरमण्डलस्य नयनाभिरामदृश्यम् | |
मध्यप्रदेश राज्यस्य मानचित्रे बुरहानपुरमण्डलम् | |
देशः | India |
राज्यम् | मध्यप्रदेशः |
उपमण्डलानि | बुरहानपुरम्, नेपानगर, खकनार |
विस्तारः | ३,४२७ च. कि. मी. |
जनसङ्ख्या (२०११) | ७,५७,८४७ |
Time zone | UTC+५:३० (भारतीयमानसमयः (IST)) |
साक्षरता | ६४.३६% |
भाषाः | हिन्दी, आङ्ग्लं च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-४८% |
Website | http://www.burhanpur.nic.in/ |
भौगोलिकम्
सम्पादयतुबुरहानपुरमण्डलस्य विस्तारः ३,७२७ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य दक्षिणभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे महाराष्ट्रराज्यं, पश्चिमे महाराष्ट्रराज्यम्, उत्तरे खण्डवामण्डलं, दक्षिणे महाराष्ट्रराज्यम् अस्ति । अस्मिन् मण्डले तापीनदी प्रवहति । अस्य मण्डलस्य उत्तरभागे सतपुडापर्वतशृङ्खला स्तः ।
जनसङ्ख्या
सम्पादयतु२०११ जनगणनानुगुणं बुरहानपुरमण्डलस्य जनसङ्ख्या ७,५७,८४७ अस्ति । अत्र ३,८८,५०४ पुरुषाः, ३,६९,३४३ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २२१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २२१ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.३७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५१ अस्ति । अत्र साक्षरता ६४.३६% अस्ति ।
उपमण्डलानि
सम्पादयतुअस्मिन् मण्डले त्रीणि उपमण्डलानि सन्ति । तानि- बुरहानपुरम्, नेपानगर, खकनार ।
वीक्षणीयस्थलानि
सम्पादयतुराजा की छतरी
सम्पादयतुराजा की छतरी नामकम् इदं स्थलं बुरहानपुर-नगरात् ४ माइल (mile) दूरे अस्ति । इदं स्थलं तापीनद्याः तटे अस्ति । श्रूयते यत् अस्य मण्डलस्य निर्माणं मुगलसम्राट् औरङ्गजेब नामाख्यः राजाजयसिंहस्य सम्माने कारितवान् इति । दक्खन-शासने राजाजयसिंहः मुगलसेनायाः सेनापतिरासीत् । दक्खन-अभियानात् पुनरागमने बुरहानपुर-नगरे राजाजयसिंहस्य मृत्युरभवत् । अतः अस्मिन् नगरे एव राजाजयसिंहस्य दाहसंस्कारम् अभवत् ।
इच्छादेवी-मन्दिरं, खूनी भण्डारा, ’शाही हमाम’, गुरुद्वारा, असीरगढ इत्येतानि अपि अस्य मण्डलस्य वीक्षणीयस्थलानि सन्ति ।
बाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये बुरहानपुरमण्डलम् सम्बन्धिताः सञ्चिकाः सन्ति। |
http://www.burhanpur.nic.in/ Archived २०१७-०८-२९ at the Wayback Machine
http://www.census2011.co.in/census/district/334-burhanpur.html