बृहत्कथा (Bruhathkatha) तु गुणाढ्येन पैशाचभाषया विरचिता वर्तते । अस्मिन् लक्षश्लोकाः वर्तन्ते । अस्मिन् पाण्डववंशस्य वत्सराजस्य पुत्रस्य नरवाहनदत्तस्य चरित्रं वर्णितम् अस्ति । अत्र अष्टादशसु लम्बकेषु नवरसभरिताभिः कथाभिः चरित्रं वर्णितम् अस्ति । सातवाहनस्य जन्मचरितस्य आधारः अस्मिन् ग्रन्थे उपलभ्यते । अग्रे क्षेमेन्द्रः इमं ग्रन्थं संस्कृतेन अनूदितवान् 'बृहत्कथामञ्जरी'नाम्ना ।

उल्लेखाः

सम्पादयतु

संस्कृते बृहत्कथायाः सर्वप्रथम उल्लेखो दण्डिनः काव्यादर्शे प्राप्यते –

भूतभाषामयीं प्राहुरदभुतार्थां बृहत्कथाम्

तदनन्तरं सुबन्धुर्लिखति – बृहत्कथालम्बैरिव सालभञ्जिकानिवहैः। बाणोऽप्याह धिया निबध्देयमतिद्वयी कथा। (अत्र अतिद्वयी पदं बृहत्कथां वासवदत्तां च परामृशतीति विद्वांसो वर्णयन्ति)। त्रिविक्रमभट्टेनोक्तम् – धनुषेव गुणाढ्येन निः शेषो रञ्जितो जनः । गोवर्धनो लिखति -

अतिदीर्घजीविदोषाद् व्यासेन यशोऽपहारितं हन्त ।
कैर्नोच्यते गुणाढयः स एव जन्मान्तरापन्नः ॥

एभिरुल्लेखैरिदं सिद्ध्यति यद् गुणाढयस्य बृहत्कथा ख्रिष्टसप्तमशतकात् प्राचीना एव । केचित् सातवाहनसमकालिकतया गुणाढयस्य प्रथमशताब्दीसम्भूततां मन्यन्ते । तत्र सातवाहनपदस्योपाधिस्वरुपतया समयव्यवस्थापकतां कत्तिपये नाङ्गीकुर्वन्ति । यदस्तु –प्रथमशतकानन्तरं सप्तमशतकात्पूर्वञ्च कश्चन समयो गुणाढ्यस्य मान्य एव । तत्र गुणाढ्यजीवनवृत्ते कातन्त्रव्याकरणप्रणेतुः शर्ववर्मणः सम्पृक्तया गुणाढ्यस्य प्रथमशताब्दीतो नातिपरवर्तित्वं विश्वसनीयं सम्भवति ।

गद्यमयी बृहत्कथा

सम्पादयतु

दण्डिना कथाया उदाहरणभावेन बृहत्कथा स्मृता । कथायां सरसं वस्तु गद्यैरेव निवध्यते, अतो बृहत्कथा गध्यमयी सम्भवति । बृहत्कथा दण्डिना दृष्ट स्यादित्यपि सम्भाव्यते, दण्डिनः पर्याप्तप्राचीनत्वात् । हेमचन्द्रोऽपि बृहत्कथातो गद्यविशेषमुद्धृत्य गद्यमयीभावं समर्थयति । यच्च तदनुवादत्रयं पद्यमयं तेन मूलमपि पद्यमयमिति कथनं तदकिञ्चित्करम् । श्लोकानां सप्तलक्षी बृहत्कथायामिति अक्षरसंख्याबोधिकैव, न पद्यमयत्वे दृढप्रमाणमिदम् ।

प्रभावः

सम्पादयतु

कादम्बरी-मालतीमाधवः-प्रियदर्शिके-नागानन्द-रत्नावली-पञ्चतन्त्र-मुद्राराक्षस इत्यादीनां ग्रन्थानां मूलाधाररूपेण वर्तते इयं बृहत्कथा । इयं जर्मन्-फ्रेञ्च्-भाषाभ्याम् अयं ग्रन्थः अनूदितः अस्ति ।

बृहत्कथाया वैशिष्ट्यम्

सम्पादयतु

लोकप्रियकथासाहित्ये प्रथमकृतित्वेन, भारतीयसाहित्यकलाया भाण्डगारभावेन, अनन्तरभाविसाहित्येनोपजीवितत्वेन च बृहत्क्थाया गौरवं नितान्तविशालम् ।

भारतीयेतिहासस्य यः कालः साधनान्तरेण अप्रकाश्यमानः, तं प्रकाशयन्त्यो ब्रुहत्कथायाः कथाः यदि साधु समालोचिताः स्युस्तदा तात्कालिकी दर्शनधारा सभ्यता स्थितिश्च स्फुटीभवेदिदमप्यस्या वैशिष्ट्यम् ।

चाणक्यस्य उल्लेखः

सम्पादयतु
चाणक्यनाम्ना तेनाथ शकटारगृहे रहः ।
कृत्यां विधाय सप्ताहात्सपुत्रो निहवो नृपः ॥
'शकटारः क्षपणकलिङ्गधारी चाणक्यमित्रं इन्दुशर्मा ।
योगानन्दे यशः शेषे पूर्वनन्दसुतः ततः ।
चन्द्रगुप्तः कृतो राज्ये चाणक्येन महौजसा ॥

मायुराजस्य उल्लेखः

सम्पादयतु

'तापसवत्सराज'इत्येतस्मिन् मायुराजः रत्नावल्याः स्थाने पद्मावतीं संस्थाप्य नाटकं रचितवान् अस्ति इत्येषः उल्लेखः बृहत्कथायां दृश्यते ।

वर्णनम्

सम्पादयतु

'भूतभाषामयीं प्राहुरद्भुतार्थां बृहत्कथाम्' इति दण्डिनः वचनम् । 'हरलीलेव नो कस्य विस्मयाय बृहत्कथा' इति बाणस्योक्तिः ।

"https://sa.wikipedia.org/w/index.php?title=बृहत्कथा&oldid=395629" इत्यस्माद् प्रतिप्राप्तम्