बेनेगल रामा राव

(बेनगल् रामरावः इत्यस्मात् पुनर्निर्दिष्टम्)


जन्म परिचयश्च सम्पादयतु

बेनगल् रामरावः (Sir Benegal Ram Rau)कर्णाटकस्य दक्षिणकन्नडमण्डलस्य प्रदेशीयः । अस्य जन्मस्थानं तु मङगलूरुनगरम् । १८७६ तमे वर्षे एप्रिल् मासस्य ३ दिनाङके अयं जन्म प्राप्तवान् । माता रमाबायी, पिता मञ्जुनाथय्यः । पिता न्यावादी आसीत् । सङीत-साहित्य-यक्षगानादिषु एत्स्य विशेषाभिरुचिः आसीत् । पितुः कलाभिरुचिः रामराये अपि प्रभावम् अजनयत् ।

विद्याभ्यासः उद्योगश्च सम्पादयतु

मद्रास् प्रेसिडेन्सि महाविद्यालये पठित्वा १८९७ तमे वर्षे बि. ए. पदवीं प्राप्तवान् । तेन पठितेषु प्रमुखः विषयः आसीत् कन्नडभाषाशास्त्रम् । १९०० तमे वर्षे मद्रास्-विश्वविद्यालयस्य द्वारा यम्. ए. पदवीं प्राप्तवान् सः । तदनन्तरं मुम्बयिविश्वविद्यलतः यल् . यल् . बि पदवीं प्राप्तवान् । कन्नडाध्यपकरूपेण मद्रास् तथा अन्येषु नगरेषु सेवां कृत्वा तत्र प्राप्तेन अनुभवेन १९०२ तमे वर्षे मुम्बयिसर्वकारीये भाषान्तरविभागे उन्नतोद्योगं प्राप्तवान् । १९१० तमे वर्षे मद्रास् सर्वकारीये कार्यालये ज्येष्ठभाषान्तरकाररूपेण नियुक्तः जातः । पुनः भाषान्तरविभागे मुख्यस्थः भूत्वा ततः निवृतः जातः । १९४३ तमे वर्षे मे मासस्य ८ दिनाङके दिवङगतः जातः ।

प्रतिभाः कार्याणि च सम्पादयतु

बहुमुखप्रतिभान्वितः रामरायः कवि, नाटककारः, पत्रिकोद्यमिरूपेण कन्नडभाषायाः कृते महोन्नततां सेवां कृतवान् । कविः रामरायः मद्रास्-विश्वविद्यानिलयस्य सेनेट्-सदस्यः आसीत् । तत्रत्य पठ्यपुस्तकसमितेः सदस्यः कर्णाटकैकीकरणसङघस्य अध्यक्षः च आसीत् । १९२५ तमे वर्षे प्रचलितस्य कन्नडसाहित्यसम्मेलनस्य अध्यक्षपीठम् अलङकृतवान् । कन्नडसाहित्यपरिषदः अभिवृद्धै एतेन महत् योगदानं कृतम् ।
कवि रामरायः बहुभाषाप्रवीणः आसीत् । कन्नड, तेलुगु, मराठि, बङगालि, संस्कृतम् इत्यादिषु भाषासु तेन विशेषाभ्यासः कृतः आसीत् । अतः अन्याभाषाणां कृतयः कन्नडभाषां प्रति अनुवादकरणाय सुयोगः प्राप्तः तेन । रमामाधव, सुभद्राविजय, शापसम्भ्रम, कलहप्रिया, तरुबाला, पद्मावती, घोषयात्रा, कुन्दमाला, सुभद्राहरण, दुताङगद, अविमारक, सत्यराज, पूर्वदेशचरित्रा इत्यादयः एतेन कन्नडभाषां प्रति अनूदिताः कृतयः । इरावति, चिक्ककथेगलु, महनीयानां चरित्रमाला, एतस्य स्वरचितकृतयः । पाण्यं सुन्दरशास्रिणः सहयोगेन रचिता कृतिः पुराणचूडामणि रामरायेण कन्नडसाहित्यसाम्राज्यस्य कृते दत्तं महोन्नतम् उपायनं वर्तते । अखण्डकर्णाटकस्य स्थापनाय बेनगल् रामरायेण आधारशिला संस्थापिता इत्येषा अतिशयोक्तिः न । एतस्य सेवा चिरस्मरणीया विद्यते ।

"https://sa.wikipedia.org/w/index.php?title=बेनेगल_रामा_राव&oldid=369860" इत्यस्माद् प्रतिप्राप्तम्