बौधायनस्मृतिः

(बोधायनस्म्ऱुतिः इत्यस्मात् पुनर्निर्दिष्टम्)

बौधायनस्मृतौ संक्षेपतश्चतुर्णां बर्णानाम् आचार-व्यवहार-प्रायश्चित्तविधीनां सारः समुपलभ्यते । शिष्टधर्मर्विधौ शिष्टानां जनानामभिमतं शास्त्रीयमेवास्ति । तत् कथं समाजे सर्वैः स्वीक्रियेत, तस्य वर्णना स्मृतावस्याम् अत्यन्तं हृद्या भवति । शिष्टाः खलु त्रिविधा भवन्ति । वेदविद्, स्मार्तः शिष्टागमश्चेति । पुनश्च सामाचिक- शुभाशुभ-विचारक्षेत्रे वा परिषदोऽभिमतमपि सर्वमान्यम् इति सर्वैः स्वीक्रियते । एते पारिषदाः शास्त्रानुमोदिता विज्ञाः सर्वमान्याश्च भवन्ति । यथा वैद्याश्चत्वारः, एको विकल्पी, एकोऽङ्गवित् एको धर्मपाठकः त्रयश्चाश्रयसंस्थिता विप्राः एतेषां निर्णयोऽन्तिम इति मान्यते । ये तावत् वैदिकधर्मं नानुपालयन्ति, स्मार्तमतं च नानुतिष्ठन्ति, तेभ्यो ब्राह्मणेभ्यः किमपि न देयम् इति बौधायनेन प्रोक्तम् । यज्ञिया आर्यावर्त्तवासिनश्च ब्राह्मणाः श्रेष्ठा इत्युच्यते । सुराष्ट्राङ्गावन्ति -मगध-दक्षिणापथ-सिन्धु-सौवीरदेशोत्पन्ना ब्राह्मणाः संकीर्णयोनयाइति तेन प्रोक्तम् । समाजेऽष्टविधा विवाहाः प्राचलन्निति प्रमाणमस्ति । ब्राह्म-प्राजपत्य-आर्ष-दैवासुर-राक्षसगन्धर्व-पैशाचा भवन्तीति तेन भणितम् । विशेषतो बौधायनेन प्रोक्तं यद् दायभाग -विधानं तावत् आधुनिक युगीयन्यायालयेषु याथार्थ्येनात्यन्तं प्रयुज्यममिति मान्यते । समाजे पूज्यपूजाया महत्त्वं स्वीक्रियते । सत्पुत्रस्य प्रशंसापि सम्यक् कृतास्ति तेन स्मृतिकारेण । प्रायश्चित्तविधेः उपादेयता युगरुच्चनुकूलेति सर्वथा मन्येत ।

बौधायतस्मृतौ प्रश्नचतुष्टयं वर्त्तते । तत्र प्रथमप्रश्नस्य प्रथमाध्याये सशिष्टधर्म-लक्षणम् द्वितीयाध्याये ब्रह्मचारिधर्माः, तृतीयेऽध्याये स्नातकधर्माः, चतुर्थाध्याये कमण्डलुचर्याविधानम्, पञ्चमाध्याये अन्तः शौचम्, बहिः शौचम्, द्रव्यशुद्धिः, भूमिशुद्धिः, जननमरणशौचादिकं प्रतिपादितम् । षष्ठाध्याये यज्ञाङ्गविधिः, सप्तमाध्याये पुनश्च यज्ञविशेषविधिः, अष्टमाध्याये ब्राह्मणादिवर्ण विचारः, नवमाध्याये संकरजातिनिरुपणम्, दशमाध्याये राजधर्माः एकादशाध्यायेऽष्टविधविवाहलक्षणानि, द्वादशाध्याये च पूर्वॊक्तानॆकविधा विचाराः उपस्थिताः | द्वितीयप्रश्ने दशाध्यायाः सन्ति । तत्र प्रथमाध्याये प्रायश्चित्तविधानम्, द्वितीयाध्याये दायभागव्यवस्था, तृतीयाध्यार्य देवादि-तर्णणविधिः स्नातकव्रतञ्च, चतुर्थाध्याये सन्ध्योपासनविधिः, पञ्चमाध्याये मध्याह्न-स्नानविधिः, षष्ठाध्याये पञ्चमहायज्ञाः, आश्रमधर्माश्च, सप्तमाध्याये शालीनयायावर-प्रभृतीनाम् आत्मयाजिनां प्राणाहृतिव्याख्यानम्, अष्टमाध्याये श्राद्धाङ्गाग्निकरण-विधिः, नवमाध्याये सत्पुत्रप्रशंसा, दशमाध्याये च सन्यासविधिः प्रतिपादितः ।

ततस्तृतीयप्रश्ने- विद्यमानेषु दशस्वध्यायेषु प्रथमाध्याये शालीनयायावरादीनां धर्माः द्वितीयाध्याये वृत्तीनां परिवर्त्तनानि, तृतीयाध्याये पचमानकापचमानकभेदेन वानप्रस्थद्वैविध्यवर्णनम्, चतुर्थाध्याये ब्रह्मचारिणोऽभक्ष्यभक्षण प्रायश्चित्तम्, पञ्चमाध्यायेऽघमर्षण-फलव्याख्यानम्, षष्ठाध्याये आत्मकृतदुरितोपशमाय विशेष- हवनविधिः, सप्तमेऽध्याये कृष्माण्डहोमविधिः, अष्टामाध्याये चान्द्रायणफलविधिः, नवमाध्यायेऽनश्नत्पारायणविधिः, दशमाध्याये च याप्यकर्मण्योपेतस्य निष्क्रयार्थं जपादिविधानम्, कुछ्रातिकृछ्रचान्द्रायणञ्च सर्वपापप्रायश्चित्तमिति निरुपणम्, ततश्च् चतुर्थप्रश्ने विद्यमानेष्वष्टाध्यायेषु प्रथमाध्याये चक्षुः- श्रोत्रत्वग्ध्राण-मनोव्यतिक्रमादिषु प्रायश्चित्तं, द्वितीयाध्याये प्रायश्चित्तविधिः, तृतीयाध्याये प्रमादकृत-प्रायश्चित्तविधिः, चतुर्थाध्यायेऽपि प्रमादकृतप्रायश्चित्तविधिः, पञ्चमाध्याये कृच्छ्र-सान्तपनादिव्रतविधिः, षष्ठेऽध्याये मृगारेष्टिपवित्रेष्ट्योः वर्णनम्, सप्तमाध्याये वेद पवित्राणामभिधानम्, अष्टमाध्याये गणहोमफलानि च प्रतिपादितानि सन्ति ।

बाह्यसम्पर्कतन्तुः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=बौधायनस्मृतिः&oldid=480682" इत्यस्माद् प्रतिप्राप्तम्