भारतीयकाफीमण्डली एषा मण्डली स्वायत्ता संस्था अस्ति । वाणिज्यमन्त्रालयस्य तथा उद्योगमन्त्रालयस्य अधीने कार्यं करोति । एषा मण्डली मित्रं, मार्गदर्शकः , उपदेशकः इव कार्यं निर्वहति । संसदः अधिनियमानुगुणम् एषा १९४२ तमे वर्षे स्थापिता । एतस्याः मुख्यं कार्यम् अभिवृद्धिः, संशोधनं, गुणवत्तावर्धनं, विपणिवार्ता, देशे विदेशेष्वपि भारतीयकाफीपेयस्य प्रचारः, प्रसारः च । १९९५ पूर्वं पूर्णतया अस्य अधीने एव सर्वं कार्यं प्रचलति स्म। काफीमण्डली मूलभूतसंशोधनकार्यं सद्यः काले किम् आवश्यकम् इति मत्वा तदनुगुणं कार्यं करोति । एतस्याः मुख्यालयः कर्णाटकस्य चिक्कमगळूरुमण्डले अस्ति । एषा विश्वे एव उत्तमा संस्था इति ख्याता अस्ति । एषा संस्था अनेकाः संस्थापत्रिकाः, संशोधनपत्रिकाः च प्रकटयति । काफीबीजोत्पादकाः ये कृषकाः सन्ति तेभ्यः विदेशे ये विक्रयणं कुर्वन्ति तेभ्यः च अनेकविधसाहाय्यमाचरति ।

"https://sa.wikipedia.org/w/index.php?title=भारतीयकाफीमण्डली&oldid=388908" इत्यस्माद् प्रतिप्राप्तम्