भिण्डमण्डलम्
भिण्डमण्डलम् ( ( शृणु) /ˈbhɪndəməndələm/) (हिन्दी: भिंड जिला, आङ्ग्ल: Bhind district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य चम्बलविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति भिण्ड इति नगरम् ।
भिण्डमण्डलम् Bhind District | |
---|---|
भिण्ड जिला | |
भिण्डमण्डलस्य नयनाभिरामदृश्यम् | |
मध्यप्रदेश राज्यस्य मानचित्रे भिण्डमण्डलम् | |
देशः | India |
राज्यम् | मध्यप्रदेशः |
उपमण्डलानि | भिण्ड, अटेर, गोडमी, मेहगांव, गोहड, रोन, मिहोना, लहर |
विस्तारः | ४,४५९ च. कि. मी. |
जनसङ्ख्या (२०११) | १७,०३,००५ |
Time zone | UTC+५:३० (भारतीयमानसमयः (IST)) |
साक्षरता | ७५.२६% |
भाषाः | हिन्दी, आङ्ग्लं च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-४२% |
Website | http://www.bhind.mp.gov.in/ |
भौगोलिकम्
सम्पादयतुभिण्डमण्डलस्य विस्तारः ४,४५९ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य उत्तरभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे उत्तरप्रदेशराज्यं, पश्चिमे मुरैनामण्डलम्, उत्तरे उत्तरप्रदेशराज्यं, दक्षिणे ग्वालियरमण्डलम् अस्ति । अस्मिन् मण्डले चम्बलनदी प्रवहति ।
जनसङ्ख्या
सम्पादयतु२०११ जनगणनानुगुणं भिण्डमण्डलस्य जनसङ्ख्या १७,०३,००५ अस्ति । अत्र ९,२६,८४३ पुरुषाः, ७,७६,१६२ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३८२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३८२ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.२१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८३७ अस्ति । अत्र साक्षरता ७५.२६% अस्ति ।
उपमण्डलानि
सम्पादयतुअस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि- भिण्ड, अटेर, गोडमी, मेहगांव, गोहड, रोन, मिहोना, लहर ।
वीक्षणीयस्थलानि
सम्पादयतुमाता-रेणुका-मन्दिरम्
सम्पादयतुमाता-रेणुका-मन्दिरं मऊ-नगरे स्थितमस्ति । इदं स्थलं भगवतः परशुरामस्य जन्मस्थलमस्ति । परशुरामस्य पिता जमदग्निः आसीत् । तस्य माता रेणुका आसीत् । तस्मिन् स्थले एव परशुरामेण पितुः आदेशपालनाय स्वस्य मातुः मस्तकछेदनं कृतम् आसीत् । तदा जमदग्निः प्रसन्नोऽभवत्, परशुरामाय इच्छितवरदानं अयच्छत् च । तदा परशुरामः स्वस्य मातुः पुनर्जीवनाय वरदानम् ऐच्छत् । तस्य माता पुनर्जीविता अभवत् । अतः अत्र रेणुकादेव्याः मन्दिरं निर्मापितम् अस्ति । अटेर-दुर्गः, नारददेव-मन्दिरं, वनखण्डेश्वर-मन्दिरम् इत्येतानि अपि अस्य मण्डलस्य वीक्षणीयस्थलानि सन्ति ।
बाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये भिण्डमण्डलम् सम्बन्धिताः सञ्चिकाः सन्ति। |
http://www.bhind.mp.gov.in/ Archived २०१८-११-२८ at the Wayback Machine
http://www.census2011.co.in/census/district/287-bhind.html