प्रमुखा विकल्पसूचिः उद्घाट्यताम्

बालावस्था मनुष्यस्य जीवितकाले प्रमुखा इति उच्यते । सः कालः मनुष्यस्य भविष्यस्य बीजरूपम् । बहूनां महनुभावानां बाल्यजीवनं क्लेशमयं दृश्यते । परन्तु ते सर्वान् क्लेशान् अनुभूय परिहृत्य वा जीवनसङ्ग्रामे यशः प्राप्नुवन्ति । तेषु डा ॥ अम्बेडकरमहोदयः अपि अन्यतमः ।तस्य बाल्यं दुःखमयम् आसीत् । तथापि सः मानवसमुदाये एव उच्चस्थानं प्रात्य धीमान् इति प्रख्यातः अभवत् ।तस्य आदर्शमयस्य विद्यार्थिजीवनस्य विषयं तथा तस्य अभ्युदये तत्त्पितुः सततप्रयत्नं च ज्ञातुं प्रयत्नं कुर्मः ।

भीमराव् रामजी अम्बेड्कर्
Bhimrao Ramji Ambedkar
Young Ambedkar.gif
युवा अम्बेड्कर्
संविधान-निर्माण-समितिः (अध्यक्षः)
In office
२९ अगष्ट् १९४७ – २४ जनवरी १९५०
भारतीय-न्याय-मन्त्रालयः (प्रथममन्त्री)
In office
१५ अगष्ट् १९४७ – सेप्टेम्बर् १९५१
President राजेन्द्रप्रसादः
Prime Minister जवाहरलाल नेह्रू
Preceded by नास्ति (प्रथमः इत्यर्थः)
उपराज्ञः(Viceroy's) कार्यालये पदाधीकारी
In office
१९४२ – १९४६
Preceded by फिरोज़् खान् नून्
Succeeded by पदस्य अवलुप्तिः
Personal details
Born (१८९१-वाचनिकदोषः : < इत्येतत् अनपेक्षितं चिह्नम् ।-१४)१४ १८९१
महू, सेन्ट्रल् प्रोविन्स्, ब्रिटिशभारतम् (वर्तमाने मध्यप्रदेशे)
Died ६ १९५६(१९५६-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-०६) (आयुः ६५)
देहली, भारतम्
Nationality भारतीयः
Spouse(s) रमाबाई अम्बेड्कर् (m. 1906)
सविता अम्बेड्कर् (m. 1948)
Alma mater मुम्बैविश्वविद्यालयः
कोलोम्बिया विश्वविद्यलयः
लन्डन् विश्वविद्यालयः
लन्डन् स्कुल् अफ् ईकोनोमिक्स्
Awards भारतरत्नम्
Signature

बाल्यं शिक्षा चसम्पाद्यताम्

डा ॥ भीमरावरामजी अम्बेडकरमहोदयस्य जन्म महाराष्ट्रस्य अम्बावाड इति ग्रामे १८९१ तमे वर्षे (एकनवत्युत्तर-अष्टादशशत्-तमे वर्षे) एप्रिलमासे चतुर्दशदिनाङ्के अभवत । भीमस्य पिता रामजी सक्पालः माता च भीमाबायी [१]। मातापित्रोः सततपूजाप्रार्थनानां फलम् इव भीमस्य जन्म अभवत् । भीमस्य आदर्शव्यक्तित्वनिर्माणे तस्य जननीजनकयोः पात्रं महात्त्वपूर्णम् आसीत् । एतयोः दम्पत्योः पूर्वजाः कबीरपथस्य अनुयायिनः आसन् । एते मांसाहारं मधुपानादिकं च त्यक्तवन्तः आसन् । भीमस्य गृहपरिसरः नैर्म्ल्यन सरलतया भक्तिभावेन न युक्तः आसीत् ।बालकस्य मनसि गृहपरिसरस्य प्रभावः आसीत् । रामजी सक्पालः विद्यावान् आसीत् । यद्यपि निर्धनः तथापि सुसंस्कृतः सः अनेकान् आदर्शनियमान् अनुसरति स्म । कर्तव्यम् एव दैवम इति सः भावयति स्म । अतः एव सः रामजी सक्पालः कर्तव्यपरायणः सत्यवादी उदारः धर्मरतः च आसीत् । प्रतिदिनं गृहे सर्वैः कौटुम्बकैः सह देवसङ्कीर्तनं सश्रद्धं करोति स्म । एषः धार्मिकगुणः तस्य पुत्रे सुसंस्कारं वर्धयितुं प्रमुखं कारणम् अभवत् । न केवलं देवसङ्कीर्तनं किन्तु रामायण - महाभारतकथाश्रवणम् अपि रामजी कारयति स्म । आध्यात्मिकविद्यया सह एव सक्पालः पुत्रेभ्यः आङ्ग्लभाषां गणितं च पाठयति स्म । रामजी सक्पालः समाजसेवातत्परः आसीत् । फुले महात्मना प्रभावितः सः शोषितबन्धूनां कष्टानि निवारयितुं प्रयत्नं कृतवान । एवं भीमजी पितुः सकाशात उद्यमशीलताम् अन्याय - अत्याचारप्रतिरोध्स्वभावं मानसिकस्थैर्यं शोषितेषु अनुरागं च शिक्षितवान । भीमस्य माता अपि सद्गुणोपेता सुसंस्कृता च आसीत् । परन्तु यदा भीमः षड्वर्षीयः तदैव सा दिवं गता । ततः रामजी सक्पालस्य अनुजा मीरा एव भीमं मातृवात्सल्येन पुपोष । भीमस्य अध्ययनकाले प्रौढशालायाम् "अम्बावाडेकर्" इति एकः अध्यापकः आसीत् । करुणालुः सः भीमं प्रीत्या आनीय भोजनं दत्त्वा अपोषयत् ।"अम्बावाडेकर" अध्यापकं प्रति भीमस्द्य अपि गौरवं बह्क्रिश्च आस्ताम् । वात्सल्यातिशयेन अध्यापकः भीमनाम्ना सह अम्बावाडेकर पदम अपि संयुज्य व्यवह्रुतवान् । ततः परम् "अम्बेडकर्" इति नाम्ना जगति प्रसिद्धो बभूव । यदा रामजी सक्पालः निवृत्तः तदा ग्रामम् उत्सृज्य मुम्बयीनगरम् आगतवान् । तत्र तस्य गृहे अध्ययनार्थम् अवकाशः नासीत् । अतः सक्पालः मध्यरात्रपर्यन्तं जागरितः भूत्वा पुत्रं पठनार्थम् उत्थाप्य तदनन्तरं स्वयं निद्रां करोति स्म । सक्पालः पुत्रम् आङ्गलभाषां सम्यक पाठितवान् । तस्मादेव भीमः आङ्गलभाषायां श्रेष्ठः वाग्मी लेखकः ग्रन्थकर्ता च अभवत् । स्वयं धनविहीनोऽपि रामजी पुत्राय अनेकानि पुस्तकानि क्रीत्वा पठनार्थ दत्तवान् । एवं भीमस्य ज्ञानदाहं पिता शमयति स्म । तस्य बुद्धिं पोष्यति स्म । पितुः प्रोत्साहेन भीमः "मेट्रिक्" परीक्षायाम् उत्तीर्णोऽभवत् । तत्काले तत्कुलजनानाम् एषा सिद्धिः अपूर्वा एव आसीत् । एकस्मिन सम्मानसमारम्भे केलूस्करामहोदयः भीमाय गौतमबुद्धः इति स्वलिखितं गन्थम् उपहारुपेण दत्तवान् । महात्मनः बुद्धस्य जीवनगाथया भीमस्य मनः नितान्तं प्रभावितम् अभवत् । तस्मै सः ग्रन्थः नवचैतन्यम् अयच्छत् । पितुः प्रोत्साहेन केलूस्करमहाभागस्य सहकारेण प्रेरितः अन्तः स्फूर्त्या च भीमः प्रौढाध्यायनं कृतवान् । केलूस्करप्रेरितः महाराजः सैय्यजिरावगायकवाडः भीमाय प्रतिमासं पञ्चविंशतिरुप्यकाणि विद्यार्थिवेतनत्वेन ददाति स्म । विश्वविद्यालये अपि "मुल्लर्" इति प्राध्यापकः भीमस्य निशितमत्या प्रभावितः तस्मै आवश्यकानि पुस्तकानि वस्त्राणि च दत्त्वा तं प्रेरयामास । सर्वेषां प्रोत्साहेन भीमः सतताध्ययनेन परिश्रमेण च बि.ए परीक्षायाम् उत्तीर्णो भूत्वा पितुः आशाम् अपूरयत् । अनन्तरं सः महाराजगायकवाडस्य सैन्ये "लेफिटनेण्ट्" पदे नियुक्तः । परन्तु तस्मिन् एव समये तस्य प्रियकरः पिता दिवं गतः । भीमरावरामजी अम्बेडकर- सदृशं धीमन्तं नायकं राष्ट्रहिताय दत्त्वा सः महोदयः पञ्चत्वम् आपन्नः । तस्मिन् एव समये बरोडमहाराजः कांश्चन प्रतिभायुक्तान् छात्रान् विशेषाढ्ययनार्थं विद्यार्थिवेतनं दत्त्वा विदेशं प्रेषयति इति वृत्तान्तं भीमः श्रुतवान । धानार्जने निरुत्सुकः भीमः स्वाधिकारस्थानं त्यक्त्वा विशेषाद्य्यायनं कर्तुं निश्चितवान् । अचिरात एव राज्ञः समीपं गत्वा सः विद्यार्थिवेतनं प्रार्थितवान् । एतस्य मेधाशक्तिम् अदम्योत्साहं च दृष्ट्वा महाराजः भीमं विदेशं प्रेषयितुम् अङ्गीकृतवान् ।

विदेशे उन्नतशिक्षासम्पाद्यताम्

अमेरिकादेशस्य नवीनपरिसरे जातिभेदरहिते स्वतन्त्रसमाजे भीमजी संतृष्टभावेन संशोढनाध्ययनकार्यं कृतवान् । एतादृशे परिसरे तस्य बुद्धिः दिनकरकिर्णैः तामरसम् इव विकसिता । दिने दिने प्रौढत्वं प्राप तस्य बुद्धिः । गुरुतरमपि कार्यं कर्तुं साश्यम् इति तस्य आत्मविश्वासः जागरितः । भीमः अमेरिकादेशे एकैकं क्षणमपि सार्थकरीत्या उपयुक्तम् अकरोत् । अमेरिकजनानाम् अत्युन्नतसाधनानि, बृहत्-ग्रन्थालयाः च भीमे महत्त्वाकांक्षां जागरितवन्तः । परदेशस्य आमोद- प्रमोदाः तस्मिन् किञ्चिदपि दुष्परिणामं कर्तुं नाशकुवन् ।

सुखार्थि वा त्यजेद्विद्यां विद्यार्थी वा त्यजेत् सुखम् ।
सुखार्थिनः कुतो विद्या कुतो विद्यार्थिनः सुखम् ॥

भीमस्य विषये एतत् वचनं समन्वेति । अमेरिकादेशे विद्याभ्याससमये सः सरलजीवनं यापयति स्म । मिताहारी सरमवस्त्रधारी मितव्ययी च सन् अमितज्ञानाकांक्षी सः अध्ययने समयंअ यापितवान् । ज्ञानार्जनम् एव तस्य तपः आसीत् । ग्रन्थालयस्य उदघाटनात् पूर्वम् एव सः द्वारि तिष्ठति स्म । सायं सेवकेन स्मारितः एव गृहं प्रतिनिवर्तते स्म । एवं सतताध्ययनेन, चिन्तनेन च सः ज्ञानस्य परां काष्ठां प्राप्तवान् । भीमः अध्ययनान्ते "पुरातन-भारतीयवाणिज्यम्" इति प्रबन्धं लिखित्वा स्नातकोत्तरपदवीम् अलभत । भारतस्य राष्ट्रिय-आयस्य चारित्रिकं विवरणात्मकं च अध्ययनम्" इति महप्रबन्धं लिखित्वा पि.एच्. डि पदवीम् अपि सः अलभत । एषः प्रबन्धः आर्थिकक्षेत्रे महाकृतिः इति ख्यातिम् अलभत । भीमः अमेरिकादेशात् लण्डन् नगरं गत्वा अर्थशास्त्रे न्यायशास्त्रे च विशेषाध्ज्ययनं अर्तुम उद्युक्तः अभवत् । परन्तु विद्यार्थिवेतनस्य अवधिः अतीतः आसीत् । अतः सः अध्ययनसमाप्तेः पूर्वम् एव भारतं प्रात्यागच्छत् । तदा सः "डाक्टोरेट्" उपाधिना अलङ्कृतः अभवत् ।

वृत्तिजीवनम्सम्पाद्यताम्

भीमजी महोदयः स्वप्रतिभया प्राध्यापकपदवीम अलभत् । तथापि तस्य मनः अध्ययनविषये न तृप्तम् आसीत् । अतः सः स्ववेतने अल्पभागम् अध्ययनार्थम् एव उअपयुङ्क्ते स्म् । ततः १९२० तमे वर्षे लण्डन नगरं गत्वा अर्थशास्त्रं न्यायशाश्त्रं च अधीतवान् । तयोः शाश्त्रयोः एम्.एस्. सि पदवीम् अदापयत् । ततः सः न्यायशास्त्रे "ब्यारिस्टर्" पदवीम् अपि लब्धवान् । एवं ज्ञानसागरः भूत्वा डा । भीमराव रामजी अम्बेडकरमहोदयः भारतं प्रत्यागच्छत् । समस्तभारतीयानाम अगेसरः भूत्वा सः भार्तीयसंविधानम् अरचयत् ।"आधुनिकमनुः" इति सम्मानितः अपि अभवत् । तस्य सेवां परिगणयन् भारतसर्वकारः "भारतरत्नम्" इति उपाधिना तं तस्य जन्मशताब्दसमये सममानयत् । एवं डा ॥ अम्बेडकरमहोदयः सर्वेषां छात्राणां मार्गदर्शकः अभवत् । भारतरत्नम् इति उपाधिना भूषितः डॉ॰ भीमराव् रामजी अम्बेड्करः (मराठी: डॉ॰ भीमराव रामजी आंबेडकर) कश्चन श्रेष्ठ राष्ट्रनायकः। महाराष्ट्रे महारजातौ निर्धने कुटुम्बे जन्म प्राप्तवान् एषः हिन्दुसमाजस्थस्य निम्नवर्गस्य अभिवृद्धिं जीवितकार्यत्वेन स्वीकृतवान्। अम्बेड्करमहारायः महाराष्ट्रे रत्नागिरिमण्डले अम्बावाडग्रामे जातः । सः निम्नकुले जातः । १८९१ एप्रिल्-मासस्य ४ दिनाङ्के तस्य जननम् अभवत् । माता भीमाबाई, पिता अम्बावाड्करः । मुम्बयीनगरे विद्याभ्यासं समाप्य, उन्नतविद्याम् अभ्यस्तुं लण्डन्-नगरं गतवान् । तत्र बारिस्टर-उपाधिं प्राप्तवान् । १९०५ तमे वर्षे रमाबाय्या सह तस्य विवाहः अभूत् । दुरदृष्टवशात् सा मृता । तस्याः मरणानन्तरं पुनः शारदाकबीर नाम ब्राह्मणयुवतीं परिणीतवान् ।

समाजसेवासम्पाद्यताम्

"भारतदेशप्राचीनवाणिज्यम्" इति परिशोधनापत्रं समर्प्य एम् ए उपाधिं प्राप्तवान् । "भारतदेशस्य जातीयः आयः - चारित्रात्मकं विश्लेषणात्मकम् अध्ययनम्" इति निबन्धं विरचय्य पि हेच् डि उपाधिञ्च लब्धवान् अयं महारायः । निम्नवर्गजनानाम् अभ्युन्नतिम् आकाङ्क्ष्य विशेषकृषिम् अकरोत् । तेषां कृते "इण्डिपेण्डेण्ट् लेबर् पार्टी आफ् इण्डिया" इति संस्थाम् अस्थापयत् । अनन्तरकाले भारतराज्याङ्गरचनासङ्घस्य अध्यक्षो भूत्वा महत् यशः प्राप्तवानयं नायकः। पं जवहरलाल् नेहरूमन्त्रिवर्गे स्थित्वा "हिन्दू कोड" इत्येकां न्यायव्यवस्थां प्रावेशयत् सः। १९१६ तमे वर्षे "भारतदेशे वर्णव्यवस्था जनानां प्रगतिश्च" इत्यस्मिन् विषये शोधनिबन्धं यान्त्रपालजी गोष्ठ्यां समर्प्य सर्वेषां मेधाविनां प्रशंसायाः पात्रमभवत् सः । विदेशेषु स्थातुम् अवकाशे विद्यमानेऽपि हिन्दूसमाजस्य संस्करणाकाङ्क्षया ततः सर्वविधावमाननं सोढुमपि संसिद्धो भूत्वा अम्बेड्करः स्वदेशे एव स्थित्वा निजदेशे भक्तिं प्रदर्शितवान् । नागपुरमहानगरे एकस्यां बहिरङ्गसभायाम् अम्बेड्करः बौद्धमतं स्वीचकार । यद्यपि सः वैद्यशास्त्रं न पठितवान् तथापि जातिदोषनिर्मूलनाय औषधमेकम् अन्विष्टवान् । तच्च "जातिव्यवस्थायाः निर्मूलनं भवेत्" इति । एष एव अस्य आशयः आसीत् । जातीयनायकः अम्बेड्करः स्वीयकृत्या परिश्रमेण च महान् जातः । तस्य आशयाः आदर्शाः अवश्याचरणीयाः, अनुसरणीयाश्च ।

सर्वत्र गुणवानेव चकास्ति प्रथितो नरः।
मणिर्मूर्ध्नि गले बाहौ पादपीठेऽपि शोभते ॥

टिप्पणीसम्पाद्यताम्

  1. ""In the 1890s"". Pritchett, Frances. Retrieved 18 अगस्त 2014. 
"https://sa.wikipedia.org/w/index.php?title=भीमराव_रामजी_आंबेडकर&oldid=440623" इत्यस्माद् पुनः प्राप्तिः