योगासनेषु प्रधानं भवति भुजङ्गासनम् । अनेनासनेन कशेरुकापेशीनां - विशिष्य उदरस्थानां पेशीनां स्नायूनां च विकासः सिद्ध्यति । पुष्टिः, बलं च प्राप्यते । पृष्ठवेदना, स्कन्धवेदना, गलवेदना इत्यादीनां शमनार्थमपि आसनमिदं सहकरोति । पृष्ठभागे रक्तचंक्रमणस्य वेगः वर्धते । उरसः विकासः सम्भवति । मूत्राशयरोगाणां कासरोगस्य च शमनार्थमपि आसनमिदम् उपकरोति ।

सूर्यनमस्कारेषु दशमम् आसनमस्ति भुजङ्गासनम्

आसनकरणविधिः

सम्पादयतु
  • उदरमवलम्ब्य भूमौ शयनं करोतु ।
  • करतलद्वयं वक्षस्स्थलमुभयतः भूमौ स्थापयतु ।
  • पादौ ऋजुतया परस्परं संयोज्य भूमौ स्थापयतु ।
  • मस्तकं, वक्षस्स्थलं च नाभिं यावत् उत्थापयतु ।
  • नाभितः आरभ्य गलदेशं यावत् नाडीनां सम्प्रसारणम् अनुभवतु ।
  • शरीरं भुजङ्गवत् शोभते ।
  • पुनः रेचकेण मस्तकं भूमौ स्थापयतु ।
  • अनेन क्रमेण त्रिचतुर्वारम् अभ्यासः करणीयः ।

अग्न्याशयः स्वस्थः भूत्वा ‘इनसुलिन्’ निर्माणे सहायकः भवति । मूत्रग्रन्थिः क्रियाशीलो भवति । मेरुदण्डः दृढः भवति ।

सम्बन्धितपुस्तकानि

सम्पादयतु

बाह्यसम्पर्कतन्तुः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=भुजङ्गासनम्&oldid=436819" इत्यस्माद् प्रतिप्राप्तम्