भूपालिरागः
भूपालिरागः (Bhopali Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन प्रसिद्धः रागः। अस्य रागस्य प्रशस्तकालः सन्ध्याकालः । ६ तः ९ वादनपर्यन्तं कालः भवति । अयं रागः शान्तरसप्रदानः रागः भवति । "वैराग्यप्रतिपादकः" रागः भवति । भजन्, भक्तिगीते, भावगीतादिषु अस्य रागस्य उपयोगः भवति । अस्यैव रागस्य "भूपरागः" इत्यपि व्यवहारः अस्ति ।
गौरद्युतिः कुङ्कुमलिप्तदेहा, तुङ्गस्तनी चन्द्रमुखी मनोज्ञा।
भर्तुः स्मरन्ती विरहेण दूना, भूपालिकेयं रसशान्तयुक्ता॥१॥
- भूपालीनाम रागस्त्विह सरिगपधैः पञ्चतीव्रस्वरैः स्यात्
- आरोहे चावरोहेऽपि च सः खलु पुनर्नैव भेदं प्रपेदे॥
- गान्धारो दैवतोऽत्र प्रविलसत उभौ वादिसंवादिनौ तौ
- प्रख्यातश्चौडुवोऽयं निशि गुणि निकरैर्गीयते पूर्वयामे॥२॥
- आरोहः – स रे ग प ध स
- अवरोहः – स ध प ग रे स
- पक्कड – प ग ध प ग रे ग, रे स
समयः
सम्पादयतुसायं ६ तः ९ वादनपर्यन्तं प्रशस्तकालः भवति ।