मण्डलामण्डलम्

(मंडला मण्डलः इत्यस्मात् पुनर्निर्दिष्टम्)

मण्डलामण्डलम् ( /ˈməndəlɑːməndələm/) (हिन्दी: मंडला जिला, आङ्ग्ल: Mandla district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य जबलपुरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति मण्डला इति नगरम् ।

मण्डलामण्डलम्

Mandla District
मण्डला जिला
मण्डलामण्डलम्
मण्डलामण्डलस्य अवस्थितिः
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि मण्डला, नैनपुर, बिछिया, घुघरी, निवास, नारायणगञ्ज
विस्तारः ५,८०० च. कि. मी.
जनसङ्ख्या (२०११) १०,५४,९०५
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ६६.८७%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-५०.४%
Website http://mandla.nic.in/

भौगोलिकम् सम्पादयतु

मण्डलामण्डलस्य विस्तारः ५,८०० चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे डिण्डोरीमण्डलं, पश्चिमे सिवनीमण्डलम्, उत्तरे जबलपुरमण्डलं, दक्षिणे बालाघाटमण्डलम् अस्ति । अस्मिन् मण्डले नर्मदानदी प्रवहति ।

जनसङ्ख्या सम्पादयतु

२०११ जनगणनानुगुणं मण्डलामण्डलस्य जनसङ्ख्या १०,५४,९०५ अस्ति । अत्र ५,२५,२७२ पुरुषाः, ५,२९,६३३ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १८२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १८२ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.९७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१००८ अस्ति । अत्र साक्षरता ६६.८७% अस्ति ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि- मण्डला, नैनपुर, बिछिया, घुघरी, निवास, नारायणगञ्ज ।

कृषिः वाणिज्यं च सम्पादयतु

अस्मिन् मण्डले काष्ठोत्पादनं, पर्णोत्पादनं, पशुपालनं, रज्जुनिर्माणम् इत्यादयः उद्यमाः सन्ति । अस्मिन् मण्डले ’मैङ्गनीज’ धातुः उत्पद्यते ।

वीक्षणीयस्थलानि सम्पादयतु

कान्हा राष्ट्रिय-उद्यानम् सम्पादयतु

कान्हा राष्ट्रिय-उद्यानं मण्डलामण्डले स्थितमस्ति । अस्मिने उद्याने शताधिकाः व्याघ्राः सन्ति । इदम् उद्यानं व्याघ्रभूमिः इति विख्यातमस्ति ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

http://mandla.nic.in/
http://www.census2011.co.in/census/district/321-mandla.html

"https://sa.wikipedia.org/w/index.php?title=मण्डलामण्डलम्&oldid=463978" इत्यस्माद् प्रतिप्राप्तम्