रविमार्गे दृश्यमानेषु २७ प्रमुखनक्षत्रसमूहेषु अन्यतमं वर्तते मघानक्षत्रम् । प्रतिदिनं चन्द्रः यस्मिन् नक्षत्रे दृश्यते तत् नक्षत्रं दिननक्षत्रम् इति उच्यते । शिशोः जननावसरे चन्द्रः यत्र भवति तत् तस्य जन्मनक्षत्रम् इति कथ्यते । हिन्दुज्योतिष्शास्त्रस्य अनुगुणम् मघानक्षत्रं भवति दशमं नक्षत्रम् ।
आकाशः ३६० डिग्रियुक्तः इति भाव्यते चेत् सः सप्तविंशतिधा विभज्यते चेत् एकैकः भागः १३.२० डिग्रियुक्तः भवति । एकैकम् अपि क्षेत्रं चतुर्धा यदि विभज्येत तर्हि १०८ भागाः भवन्ति । एकैकोपि भागः ३.२० डिग्रियुक्तः भवति । तन्नाम नक्षत्रस्य प्रत्येकभागः ३.२० डिग्रियुक्तः भवति । एकस्य नक्षत्रस्य १३.२० डिग्रिपरिमितभागः । एकस्य राशेः ३० डिग्रिभागः । १२ राशीनां ३६० डिग्रिपरिमितः भागः भवति ।

मघानक्षत्रम्

आकृतिः सम्पादयतु

मखान्दोलिक पञ्च - आन्दोलिकाकृतौ विद्यमानानि पञ्च नक्षत्राणि ।

सम्बद्धानि अक्षराणि सम्पादयतु

के को हा ही - मघानक्षत्रसम्बद्धानि अक्षराणि ।

अधिदैवम्, वैदिकविवेचनम् सम्पादयतु

आ यन्तु नः पितरः सोम्यसोऽग्निष्वात्ताः पथिभिर्देवयानैः । अस्मिन् यज्ञे स्वधया मदन्तोऽधि बुवन्तु ते अवन्तु तेऽवन्त्वस्मान् ॥ (यजुर्वेद १९-५८)

वेदे मघानक्षत्रं देवनक्षत्रं मन्यते । मघानक्षत्रस्य स्वामी पितरः । इदं देवयानेन आगमिष्यति । वेदे मघायाः अर्थ अस्ति - विद्या विज्ञानम्, ऐश्वर्यम्, बलम् इन्द्रश्च । इन्द्रस्य अपरं नाम अस्ति मघवा । इदं नक्षत्रं शुभप्रदम् अस्ति । तैत्तिरीयब्राह्मणे इदं सुकृत्यं मनोजवं इत्यादिकं निर्दिष्टमस्ति ।

उपहूता पितरो ये मघासु मनोजवसः सुकृतः सुकृत्याः ।
ते नो नक्षत्रे हवमागमिष्ठाः । येऽमुं लोकं पितरः क्षियन्ति ।
यांश्च विद्मो यान्न विद्मः । मघासु यज्ञं सुकृतं जुषन्ताम् ॥

ऋग्वेदस्य १०-८५-२३ मन्त्रे मघासु हन्यन्ते गावोऽर्जुन्यो पर्युह्यते इत्यस्ति । तन्नाम सवित्रा या वरदक्षिणा दत्ता सा सूर्यायाः अपेक्षया अग्रे गता । मघानक्षत्रे गोवधः भवति । फल्गुनीनक्षत्रे कन्या नीयते । सवितुः कन्या सूर्या सोमाय दत्ता । तदवधौ सूर्येण वरदक्षिणारूपेण दत्तं धेनुद्वयं पूर्वदिने मघानक्षत्रे एव नीतम् । कन्या फल्गुनी नक्षत्रे नीता ।

आश्रिताः पदार्थाः सम्पादयतु

पित्र्ये धनधान्याढ्याः कोष्ठागाराणि पर्वताश्रयिणः ।
पितृभक्तवणिक्शूराः ऋव्यादाः स्त्रीद्विषो मनुजाः ॥

धनधान्याढ्या वित्तशालिबहुलाः । कोष्ठागाराणि विपुलग्रामाः । पर्वताश्रयिणः पर्वतनिवासिनः । पितृभक्ताः पितॄणां पूजाभिरताः । वणिजः क्रयविक्रयनिरताः । शूराः सङ्ग्रामप्रियाः । क्रव्यादा मांसाशिनः, पक्वमपक्वं वा मांसमश्नन्ति । स्त्रीणां द्विषो ये मनुजा मनुष्याः । एते सर्व एव पित्र्ये मघायाम् ।

स्वरूपम् सम्पादयतु

युवतीकरसङ्ग्रहणं वापीकूपतडागोत्सवाद्यं च ।
क्षितिपत्याहवसर्वं पितृधिष्ण्ये च पैतृकं कार्यम् ॥

मघानक्षत्रे विवाहकार्यं, वापीसरोवरादीनां कार्यम्, उत्सवाः, राज्ञां सम्पूर्णकर्म, पितॄणां समग्रं कर्म इत्यादीनि कार्याणि कर्तुं शक्यन्ते ।

उग्रसंज्ञकनक्षत्राणि सम्पादयतु

उग्राणि पूर्वभरणीपित्र्याण्युत्सादनाशशाठ्येषु । योज्यानि बन्धविषदहनशस्त्रघातादिषु च सिद्ध्यै ॥ अथोग्राणि नक्षत्राणि तैश्च यत् कर्म कर्तव्यं तच्चाह -
पूर्वत्रयं पूर्वफाल्गुनी पूर्वाषाढा पूर्वभाद्रपदा इति । प्रित्र्यं मघा । एतानि पञ्च नक्षत्राण्युग्राणि भवन्ति । तानि चोत्सादे उत्सादने । परस्यार्थादीनां नाशे । शाठ्ये शठभावे च । एतेषु कार्येषु योज्यानि । तथा बन्धे बन्धने । विषे शत्रूणां विषप्रयोगे । दहनेऽग्निदाहे । शस्त्रे शस्त्रप्रहरणे । घाते मारणे । आदिग्रहणादन्येषूपद्रवकरणेषु ज्वरातीसारोत्पादनेषु सर्वकर्मसु सिद्ध्यै सिद्ध्यर्थं योज्यानि प्रयोक्तव्यानि ।

पश्य सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=मघा&oldid=395692" इत्यस्माद् प्रतिप्राप्तम्