मण्डलामण्डलम्
मण्डलामण्डलम् ( ( शृणु) /ˈməndəlɑːməndələm/) (हिन्दी: मंडला जिला, आङ्ग्ल: Mandla district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य जबलपुरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति मण्डला इति नगरम् ।
मण्डलामण्डलम् Mandla District | |
---|---|
मण्डला जिला | |
मण्डलामण्डलस्य अवस्थितिः | |
देशः | India |
राज्यम् | मध्यप्रदेशः |
उपमण्डलानि | मण्डला, नैनपुर, बिछिया, घुघरी, निवास, नारायणगञ्ज |
विस्तारः | ५,८०० च. कि. मी. |
जनसङ्ख्या (२०११) | १०,५४,९०५ |
Time zone | UTC+५:३० (भारतीयमानसमयः (IST)) |
साक्षरता | ६६.८७% |
भाषाः | हिन्दी, आङ्ग्लं च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-५०.४% |
Website | http://mandla.nic.in/ |
भौगोलिकम्
सम्पादयतुमण्डलामण्डलस्य विस्तारः ५,८०० चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे डिण्डोरीमण्डलं, पश्चिमे सिवनीमण्डलम्, उत्तरे जबलपुरमण्डलं, दक्षिणे बालाघाटमण्डलम् अस्ति । अस्मिन् मण्डले नर्मदानदी प्रवहति ।
जनसङ्ख्या
सम्पादयतु२०११ जनगणनानुगुणं मण्डलामण्डलस्य जनसङ्ख्या १०,५४,९०५ अस्ति । अत्र ५,२५,२७२ पुरुषाः, ५,२९,६३३ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १८२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १८२ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.९७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१००८ अस्ति । अत्र साक्षरता ६६.८७% अस्ति ।
उपमण्डलानि
सम्पादयतुअस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि- मण्डला, नैनपुर, बिछिया, घुघरी, निवास, नारायणगञ्ज ।
कृषिः वाणिज्यं च
सम्पादयतुअस्मिन् मण्डले काष्ठोत्पादनं, पर्णोत्पादनं, पशुपालनं, रज्जुनिर्माणम् इत्यादयः उद्यमाः सन्ति । अस्मिन् मण्डले ’मैङ्गनीज’ धातुः उत्पद्यते ।
वीक्षणीयस्थलानि
सम्पादयतुकान्हा राष्ट्रिय-उद्यानम्
सम्पादयतुकान्हा राष्ट्रिय-उद्यानं मण्डलामण्डले स्थितमस्ति । अस्मिने उद्याने शताधिकाः व्याघ्राः सन्ति । इदम् उद्यानं व्याघ्रभूमिः इति विख्यातमस्ति ।
बाह्यसम्पर्कतन्तुः
सम्पादयतुविकिमीडिया कॉमन्स् मध्ये मण्डलामण्डलम् सम्बन्धिताः सञ्चिकाः सन्ति। |
http://mandla.nic.in/
http://www.census2011.co.in/census/district/321-mandla.html