एतत् मधुकर्कटीफलम् अपि सस्यजन्यः आहारपदार्थः । एषा मधुकर्कटी आङ्ग्लभाषायां Carica papaya इति उच्यते । कदली इव मधुकर्कटी अपि शलाटुदशायां शाकत्वेन उपयुज्यते । किन्तु सा एव यदा पक्वा भवति तदा तु फलायते । मधुकर्कटीसस्यं क्रान्तिवलयभूमौ प्रायः सर्वत्र वर्धते । भारते तु सर्वत्र दृश्यते एतत् । मधुकर्कट्यां बहवः औषधीयगुणाः सन्ति । यदा सस्यछेदः क्रियते तदा एतस्मात् सस्यात् श्वेतः द्रवविशेषः निर्गच्छति । फलदशायाम् एषः द्रवविशेषांशः सान्द्ररुपेण सङ्गृहीतः भवति ।

वृक्षे दृस्यमानानि पक्वानि अपक्वानि च मधुकर्कटीफलानि
मधुकर्कटीवृक्षः, पुष्पं, कर्तितं फलं, बीजं चापि
मधुकर्कटीम् उपयुज्य निर्मितं फलरसायनम्
मधुकर्कटीसस्यम्

आयुर्वेदस्य अनुसारम् अस्य मधुकर्कटीफलस्य स्वभावः

सम्पादयतु
१. मधुकर्कटीफले पपेननामकः अंशः यथा, तथा ’ए’जीवसत्त्वम् अपि आधिक्येन भवति ।
२. मधुकर्कटी वर्धमानानां बालानां कृते उत्तमः आहारः एषः ।
३. पक्वतादशायां मधुकर्कटी जीवसत्त्वस्य आकरः भवति ।
४. पक्वायाः मधुकर्कटयाः खादनेन भवन्ति बहवो लाभाः । मधुकर्कटी मलबद्धतां यथा तथा अतिसारमपि निवारयति ।
५. एषा मधुकर्कटी क्षुधावर्धिका अपि ।
६. अल्पाहारस्य अर्धघण्टातः पूर्वं यदि प्रतिदिनं मधुकर्कटी सेव्येत, तर्हि रक्तचापपीडा निगृहीता भवेत् निश्चयेन ।

"https://sa.wikipedia.org/w/index.php?title=मधुकर्कटीफलम्&oldid=345484" इत्यस्माद् प्रतिप्राप्तम्