मधुमेहः (Diabetes mellitus) कश्चन रोगः विद्यते । अधुनातनसमाजे मधुमेहरोगः साधारणरोगरूपेण बहुभिः अभिज्ञायते । रोगस्य लक्षणं विभिन्नेषु जनेषु बहुधा भिद्यते । रोगिणां रक्ते मूत्रे च शर्करायाः अंशः अवलोक्यते इत्येतत् रोगस्य मुख्यलक्षणम् । अग्न्याशयः सम्यक् क्रियाशीलः न भवति चेत् रक्ते ‘इनसुलिन्’ इति पदार्थस्य ह्रासः भवति । यदि अग्न्याशयः प्रचुरम् ‘इनसुलिन्’ न उत्पादयति, तदा शरीरे शर्करायाः उपयोगः सम्यक् भवितुं नार्हति, तस्मादपि शक्तिः नोत्पद्यते ।

Diabetes mellitus
Classification and external resources
Universal blue circle symbol for diabetes.[१]
ICD-10 E10E14
ICD-9 250
MedlinePlus 001214
eMedicine med/546 emerg/134
MeSH C18.452.394.750
मधुमेहरोगस्य लक्षणानि

परिणामः सम्पादयतु

मधुमेहरोगेण रोगी बहुकष्टमनुभवति । असकृद् मूत्रविसर्जनम्, अत्यधिकक्षुधायाः अनुभवः, अत्यधिकतृषायाः अनुभवः, शरीरभारस्य वर्धनं ह्रासः वा, नेत्रयोः अधः कृष्णवर्णता, शरीरे दौर्बल्यानुभवः, चर्मरोगः इत्यादीनि लक्षणानि दृश्यन्ते । पूर्वोक्ताः सर्वेऽपि रोगाः रोगिणे पीडादायकाः भवन्ति । मधुमेहिरोगिणां शरीरे किञ्चित् क्षतं यदि भवेत्, तर्हि तत् क्षतं शीघ्रं शुष्कं न भवति । दीर्घकालीनात् रोगात् रक्तचापः, नेत्ररोगः, मूत्रग्रन्थौ असमञ्जसता इत्यादयः अनुभूयन्ते ।

चिकित्सा सम्पादयतु

सामान्यतः रोगिणः शरीरे सूच्यौषधेन, गुलिकया वा ‘इनसुलिन्’ प्रपूर्य चिकित्सा क्रियते । परन्तु सा चिकित्सा कदापि मधुमेहं सम्पूर्णरूपेण न नाशयति । अतः अस्य रोगस्य निवारणाय आसनप्राणायामध्यानानाम् अभ्यासः तु अत्यवश्यः भवति ।

योगाभ्यासेन उपशमनम् सम्पादयतु

अस्य रोगस्य उपशमनाय योग्याहारस्य सेवनविषये, नियमितयोगाभ्यासविषये च अधिकम् अवधानं दातव्यम् । एकविंशतिदिवसानाम् अनन्तरं रोगस्य प्रस्तुतस्थितेः विषये अवगत्य, शनै शनैः औषधस्य परिमाणं न्यूनीकरणीयम् । अन्ते सम्पूर्णरूपेण औषधस्य त्यागः कर्तव्यः । अनेन क्रमेण मासद्वये, मासत्रये वा रोगस्य उपशमः भवति ।

अनया चिकित्सया यकृतः, उदरस्य च ग्रन्थयः स्वस्थाः सन्तः कार्याणि कुर्वन्ति । तदा रोगी रोगात् उपशमनम् अनुभवति । अतः तद्रोगाक्रान्ताः अधोनिर्दिष्टानाम् आसनानां नियमितरूपेण अभ्यासं कुर्युः । प्रातः मलविसर्जनानन्तरं प्रथमतः निर्दिष्टे स्थाने कम्बलस्योपरि दण्डायमानो भूत्वा शरीरस्य शिथिलीकरणं कुर्यात् । ततः परं सूर्यनमस्कारस्य अभ्यासं बीजमन्त्रेण सह षडवारं कर्तव्यम् । ततः मधुमेहरोगस्य कृते निर्दिष्टानि आसनानि कर्तव्यानि ।

मधुमेहरोगस्य प्रभेदानां तोलनम्
प्रभेदः मधुमेहः प्रकारः १ मधुमेहः प्रकारः २
प्रारम्भः अनिरीक्षितरूपेण क्रमेण
कदा प्रायः बालावस्थायां प्रायः मध्यमवयसि
शारीरकस्थितिः कृशः सामान्यः वा प्रायः स्थूलः
Ketoacidosis-रासायनिकम् सामान्यम् विरलम्
Autoantibodies-रासायनिकम् सामान्यतः भवति न भवति
Endogenous insulin न्यूनः/नास्ति सामान्यः
प्राचुर्यम् ~10% ~90%
  1. "Diabetes Blue Circle Symbol". International Diabetes Federation. 17 March 2006. Archived from the original on 5 August 2007. आह्रियत 4 February 2015. 

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=मधुमेहः&oldid=483160" इत्यस्माद् प्रतिप्राप्तम्