अयं कश्चन वृक्षविशेषः वर्तते ।

मन्दारः
Flowers
Flowers
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Fabales
कुलम् Fabaceae
वंशः Bauhinia
जातिः B. variegata
द्विपदनाम
Bauhinia variegata
L.
१) चर्मणः उपरि मन्दारस्य वल्ल्कल्म् अधिकं प्रभावं जनयति । पिटकान् शीघ्रं शामयति । केचन चर्मरोगाः मन्दरस्य वल्कलस्य कषायेन क्षालनेन निवारिताः भवन्ति । मुखे पिटकाः भवन्ति चेदपि अनेन कषायेन गण्डूषकरणं रूढौ अस्ति ।
२) आमशङ्का, क्रिमिसमस्या, गुदभ्रंशः प्रवाहिका इत्येतेषु रोगेषु अपि मन्दारः प्रयोजनकारी ।
३) उदरस्स्फीतिः अस्ति चेत् अस्य पुष्पस्य गुलकुन्दम् सज्जीकृत्य सेवनीयम् । (गुलकुण्दम् –गुडस्य, शर्करायाः वा पाके पुष्पाणां दलनि संस्थाप्य सज्जीक्रियते )
४) द्रवरूपीपित्तं यदा रक्तेन मिलति तदा समग्रशरीरे पित्तप्रकोपस्य दुष्परिणामः भवति । इदं रक्तपित्तं शरीरस्य ऊर्ध्वभागे नासिकातः नेत्रतः कर्णतः मुखात् च निस्सिरति अपि च शरीरस्य अधोभागे जननेन्द्रियात्, येनितः गुदात् च निरसरति । अन्ते रोमकूमतः एव रक्तपित्तं निस्सरति । एतादृशस्य रक्तपित्तस्य निवारणार्थं मन्दरस्य पुष्पाणि कुट्टयित्वा रसं निष्कास्य १०-२० मि.ली परिमितं सेवनीयम् । केषुचित् दिनेषु एव एषः भयङ्कररोगः शाम्यति ।

उपलभ्यमानानि औषधानि

सम्पादयतु
  1. काञ्चनारगुग्गुलु
  2. काञ्चनारादिक्वाथः
  3. काञ्चनगुटिका इत्येतानि प्रसिद्धानि ।

प्रभेदाः

सम्पादयतु

पुष्पाणां वर्णानुसारं मन्दास्य त्रयः प्रभेदाः सन्ति ।

  1. श्वेतपुष्पः
  2. पीतपुष्पः
  3. रक्तपुष्पश्च
  4. पितपुष्पाणि अर्धविकसितानि भवन्ति । रक्तपुष्पमन्दारः उन्नतः वृक्षः भवति श्वेतपुष्पः पीतपुष्पश्च बहु उन्नतः न भवति ।
 
Bauhinia variegata at Courtallam
 
Kachnar Trees on full blossom on Margalla Road Islamabad, Pakistan

 ]]

 
Bauhinia variegata
"https://sa.wikipedia.org/w/index.php?title=मन्दारः&oldid=396058" इत्यस्माद् प्रतिप्राप्तम्