एतत् मरीचचूर्णम् अपि सस्यजन्यः आहारपदार्थः । एतत् चूर्णं भारते तु सर्वत्र अपि उपयुज्यते । मरीचस्य चूर्णम् एव मरीचचूर्णम् । एतत् मरीचचूर्णम् आङ्ग्लभाषायां Pepper Powder इति उच्यते । कुत्रचित् मरीचं भर्जयित्वा चूर्णीकुर्वन्ति, कुत्रचित् तथैव चूर्णीकुर्वन्ति । एतत् मरीचचूर्णं क्वथितनिर्माणे, सारनिर्माणे, केषाञ्चन उपहाराणां निर्माणे, औषधत्वेन चापि उपयुज्यते ।

मरीचचूर्णम्
कृष्णं श्वेतं च मरीचम्

"https://sa.wikipedia.org/w/index.php?title=मरीचचूर्णम्&oldid=423144" इत्यस्माद् प्रतिप्राप्तम्