मल्लस्तम्भक्रीडा
मल्लस्तम्भक्रीडा(Mallakhamb) भारतदेशस्य साम्प्रदायिकक्रीडासु अन्यतमा ।
एषा क्रीडा महाराष्ट्रराज्ये आरब्धा । मराठी भाषायाम् अस्याः क्रीडायाः नाम मल्लखांब अथवा मलखांब इति वर्तते । हिन्दीभाषायां मल्खम्ब अथवा मल्लखम्भ इति प्रसिद्धं वर्तते । शरीरस्य सर्वस्मिन् भागे न्यूनसमये अधिकप्रभावकारी व्यायामस्य क्रीडा वर्तते ।
इतिहासः
सम्पादयतुअस्याः क्रीडायाः इतिहासः अतीव प्राचीनः वर्तते इति मन्यते । परन्तु, लिखितरूपेण आधारः न लभ्यते । रामायणकाले हनुमान् अस्याः क्रीडायाः शोधः कृतवान् इति श्रूयते । ११३५ तमे वर्षे सोमेश्वर चालुक्यवर्येण लिखितः मानसोल्लासः इति ग्रन्थे मल्लस्तम्भक्रीडायाः वर्णनं कृतं वर्तते । महाराष्ट्रराज्ये पेश्वशासनकाले एनां क्रीडां बहु क्रीडन्ति स्म । पेश्वशासनकाले मल्लस्तम्भक्रीडायाः व्यायामागारः सम्पूर्णभारतदेशे आरम्भं कृतवन्तः । गुराखी जातीय जनानाम् अस्याः क्रीडायां महत्त्वं वर्तते ।
क्रीडा स्वरूपम्
सम्पादयतुदारु स्तम्भः
सम्पादयतुमल्लस्तम्भः दारुणा निर्मितः स्तम्भः भवति । एषः स्तम्भः ८ फीट् भवति । एषः स्तम्भः भूमेः अन्तः दृढतया स्थापितः भवति । भूमेः उपरितन भागः गोलरूपेण भवति ।
रज्जुः
सम्पादयतुमल्लस्तम्भक्रीडा रज्जोः उपयोगं कृत्वाऽपि क्रीडन्ति । एषः रज्जुः २० फीट् भवति ।
संस्थाः
सम्पादयतु- मुम्बई उपनगरजिल्ला मलखाम्ब सङ्घटना
- साने गुरुजी आरोग्यमन्दिरम्
- हौशी मलखाम्ब सङ्घटना
- अकोला जिल्ला मलखाम्ब सङ्घटना
- नाशिक जिल्ला मलखाम्ब सङ्घटना