महम्मद् मुस्तफ झखारिया
- महम्मद् मुस्तफ झखारिया
- जनकः- महम्मद् अब्दुल् हक्
- ग्रामः यारिपोक्
- राज्यम्- मणिपुरम्
महम्मद् अब्दुल् हक् इत्येतस्य पुत्रेषु प्रथमः महम्मद् मुस्तफ झखारिया । एतस्य जन्म १५-१०-१९८० तमे दिनाङ्के अभवत् ।अस्यु अनुजः रुक्मुद्दीन् गालिब् ।। एतस्य अपेक्षया वर्षद्वयोनः। महम्मद् अब्दुल् हक् तावत् मणिपुरराज्यस्य इम्फालमण्डलस्य यारिपोक् इति ग्रामे वसति । यारिपोक् ग्रामः इम्फालनगरात् केवलं ५-६ किलोमीटर् दूरे अस्ति । एषः महोदयः इम्फालनगरस्य दक्षिणभागे स्थितस्य तेबाल्नगरस्य तेबाल्महाविद्यालये राजकीयशास्त्रस्य उपान्यासकः । महम्मद् अब्दुल् हकस्य पत्नी मदीनबेगम् । तौ प्रथमं पुत्रीं प्राप्तवन्तौ । अनन्तरं अल्लहु कृते प्रार्थनां कृतवन्तः तस्य प्रसादेन पुत्रं प्राप्तवन्तौ । तस्य नाम महम्मद् मुस्तफ झखारिया। झखारिया जननसमये पीनः आसीत् । वर्धामानस्य किसलयस्य विषये अङ्क्रुरे एव ज्ञायते इतिवत् , सः यदा दशमासीयः आसीत् तदा एव चलितुमारब्धवान् । बाल्ये एव सः शक्तिम् अतिक्रम्य कार्यं करोति स्म । भारवतीं शिलां,भारवद्पात्राणि, वृक्षखण्डान् च उन्नीय क्षिपति स्म । भयमेव नासीत् तस्य । धैर्यं साहसं च तस्य रक्तगतगुणौ आस्ताम् । वर्धमानः सन् सः मित्राणि वदति स्म –“ भवन्तः सर्वे एकत्र तिष्ठन्तु अहमेकाकी एकत्र तिष्ठामि, अहं भवतः सर्वान् जेष्यामि” इति । न केवलं वदति स्म कार्यं कृत्वा दर्शयति स्म । सः कदापि पराजितः न भवति स्म । कीडा या काऽपि वा भवतु क्रीडायां कथं जयः प्राप्तव्यः इति स जानाति स्म । तथापि मित्रेषु मैत्रीभावनां रक्षति स्म । तेषां साहाय्यं आचरति स्म । यदा एषः चतुर्वर्षीयः बालः तदा एतं किण्डर् गार्डन् शालायां संयोजितवन्तः। परन्तु शालां गन्तुं तस्य मनः नासीत् , यतः शालायां यान् प्रश्नान् स पृच्छति स्म तेषाम् उत्तराणि न लभ्यन्ते स्म । विना उत्तराणि स एकत्र उपवेष्टुं न इच्छति स्म । गृहे एव पाठयितुं व्यवस्था कृता । स्वतन्त्रतया गृहावरणे एव क्रीडितुम् अवसरं प्रकल्पितवन्तः । मणिपुरराज्ये अत्युत्तमा शाला इति ख्यातायां कोयिराङ्ग् मध्ये स्थितायां मणिपुरपब्लिक्शालायां तं प्रवेशितवन्तः । प्रथमकक्ष्यायाः कृते योजयितुम् आवेदनपत्रं दत्तवन्तः । प्रवेशपरीक्षायां उत्तराणि लेखनीयानि आसन् । झाखारिया कालावकाशात् पूर्वमेव उत्तराणि विलिख्य उत्तरपत्रं दत्तवान् । प्रवेशपरीक्षायां उत्तीर्य तस्य प्रवेशः अपि तस्यां शालायाम् अभवत् ।अधुना अब्दुल् हकस्य गृहस्य पुरतः मार्गात् बहिः एकं क्रीडाङ्गणम् अस्ति । क्रीडाङ्गनणस्य एकस्मिन् कोणे चतुर्णां स्तम्भानाम् उपरि विद्युद्विकल्पकः कश्चन आसीत् । स्तम्भान् परितः अयसा निर्मिता वृतिः आसीत् ।“अपायः” इति फलकम् अपि स्थापितवन्तः आसन् । १९८७ तमे वर्षे जून् मासस्य अष्टने दिने सोमवासरे सायं ३.४० वादनसमयः। शाला समाप्ता । झखारिया , तस्य सहोदरः रुक्मुद्दीन् तथा प्रतिवेशिगृहबालाः सर्वे च एकत्र मिलिताः । क्रीडाङ्गणस्य पश्चिमदिशि अन्येषा बालाकानाम् एकः गणः अपि कन्दुकेन क्रीडति स्म । झखारियागणः पूर्वस्मिन् दिशि कन्दुकेन क्रीडितुम् आरब्धवन्तः । तेषु एकेन बालकेन क्षिप्तः कन्दुकः वृतेः अन्तः पतितः । आपदि किं करणीयाम् इति बालाः पाठनीयाः एव । विद्युदावरणे न प्रवेष्टव्यम् इति लिखितं भवति "अपायः” इतिफलकम् । कः अपायः? कथं सम्भवेत् ? इति विषये अपि बालाः पाठनीयाः । बालाः अज्ञात्वा कदाचित् दोषं कुर्वन्ति ।यदि अपायज्ञानम् भवति ते तथा न कुर्वन्ति । अपायस्य विषये कथनं ज्येष्ठानां शिक्षकाणां च कर्तव्यम् । कारणम् अनुक्त्वा "एतत् मा कुरु” इति कथनेन "किमर्थम्” इति पृच्छन्ति । कृते किम् भवति इति पुनः तेषां मनसि प्रश्नः उद्भवति ।अनेकेषु बालकेषु 'कृत्वा पश्यामः किम् भवति’ इति अनुक्तग्राहित्वं उद्भवति । तदा तादृशकार्यकरणसमये ते आपदि पतन्ति । मा कुरु इति कथन समये तादृशस्य अपायस्य करणेन किं भवति इति वदामः तदा ते बालाः दोषान् न कुर्वन्ति । सर्वे पोषकाः एवमेव कुर्वन्ति इति निरीक्षां कर्तुमपि न शक्नुमः ।अतः अपायः कस्मात् सम्भवति ? । कथं सम्भवति ? इति पाठनीयम् । एतादृशाः पाठाः पठ्यपुस्तके भवेयुः । विद्युदावरणे पतितं कन्दुकं आनेतुं रुक्मुद्दीन् धावितवान् । वृतिमारुह्य अन्तः प्रवेष्टुम् इष्टवान् यदा सह वृतिं स्पृष्टवान् तदा तत्र शृङ्खलायां प्रवहन्ती विद्युच्छक्तिः एतम् अकृष्टवती । तस्य दक्षिणहस्तस्य अङ्गुल्यः तत्र संश्लिष्टाः। रुक्मुद्दीन् आ आ आ इति वदन् पतितः। यस्मिन् गणे सः क्रीडति स्म तस्मिन् गणे दशाधिकाः जनाः आसन् । ते सर्वे बालकाः तत्र आगत्य तं परितः अतिष्ठान् ।रुक्मुद्दीनं रक्षितुं कोऽपि अग्रे न गतवान् । झाखारिया तदा तदा मतापितरौ अज्ञातानां विषये प्रश्नान् पृच्छति स्म । जनकः विना खेदं सर्वेषां प्रश्नानाम् उत्तराणि यच्छति स्म । पुनः पुनः स पृच्छति चेत् अपि सः प्रीत्या एव उत्तराणि कथयति स्म । झखारिया तावत् स्वगृहस्य पुरतः विद्युतद्विकल्पं परितः किमर्थं वृतिं निर्मितवन्तः ?”अपायः” इति फलकं किमर्थं स्थापितवन्तः?इत्येवमादिनं प्रश्नान् पृष्ट्वा उत्तराणि लब्ध्वा बहून् विषयान् ज्ञातवान् आसीत् । रुक्मुद्दीन् वृतिं प्रति गच्छति इति ज्ञातः चेत् सः रोत्स्यति स्म । परन्तु क्षिप्तः कन्दुकः यथा गतः तत्समवेगेन अनुजः धावितवान्। अतः रोद्धुम् असमर्थः आसीत् । सः वृतिम् आरोढुं प्रयत्नं कृतवान् तदा स आपदि पतितः। रुक्मुद्दीनं रक्षितुं झखारिया सिद्धः। रुक्मुद्दीनस्य कार्पासवस्रं गृहीत्वा स्वबलं उपयुज्य अनुजम् आकृष्टवान् एव । विद्युच्छक्तिप्रवाहः स्थगितः अभवत् । परन्तु अनुजः मूर्छितः आसीत् । तस्य दक्षिणहस्तस्य अङ्गुष्ठः दग्धः आसीत् । एतं द्रष्टुं न केवलं तस्यगणस्य बालकाः, अन्यगणस्य बालकाः, परितः विद्यमानाः जनाः च आगताः । रुक्मुद्दीनस्य स्थितिं दृष्ट्वा दुःखिताः । झखारियस्य समयप्रज्ञां, धैर्यं च प्राशंसन् । रुक्मुद्दीनस्य तु सपदि चिकित्सा आवश्यकी आसीत् । प्रतिवेशिनः तं यैरिपोक्प्राथमिक-आरोग्यकेन्द्रं प्रति नीतवन्तः । माता मदीनाबेगं पुत्रम् अनुसृतवती । वैद्यानां चिकित्सया सः उज्जीवितः अभवत् । जनकः सायं गृहमागत्य सर्वं वृत्तान्तं श्रुतवान् । सः रुक्मुद्दीनस्य रक्षणं कृतवान् इति तं प्रीत्या आलिङ्गितवान् । अल्लाहं च प्रार्थितवान् । चङ्गं दाबिस्स्थैः महम्मदीन् क्लब्जनैः सः बालः सम्मानितः। तस्मै २०१ रूप्यकाणां पुरस्कारमपि दत्तवन्तः। बालकल्याणमण्डली एतं राष्ट्रप्रशस्त्याः कृते चितवती । २५-१-१९८८ तमे दिने राजीवगान्धिः अस्मै प्रशस्तिं दत्तवान् । ""