सयाजीराव गायकवाड

(महाराजसयाजीराव-III इत्यस्मात् पुनर्निर्दिष्टम्)


गुजरातराज्यस्य वडोदरामहानगरस्य महान् राजा आसीत् । सद्यः वडोदरामहानगरस्य विकासः महाराजसयाजीराव-III इत्यस्य कुशलनेतृत्वेन अस्ति । तस्य मुख्योद्देशः सामाजिक-आर्थिकस्थिरते भवेताम् इति आसीत् । अतः सः वस्त्रनिर्माणप्रक्रियायां क्रान्तिकारिपरिवर्तनं कृत्वा वडोदरामहानगरम् उद्योगक्षेत्रे अग्रे नीतवान् । सः शिक्षणक्षेत्रेऽपि क्रान्तिकारिपरिवर्तनानि कृतवान् । सः प्राथमिकशिक्षणम् अनिवार्यं भवेत् इति घोषितवान् । मुख्यरूपेण कन्याशिक्षणं भवेत् इति तस्य मुख्यलक्ष्यम् आसीत् । कारणं तदा भारते कन्याशिक्षणं नासीत् । एतावति उत्कृष्टे निर्णये सति आङ्ग्लाः, अन्ये जनाः अपि तस्य भूरिप्रशंसां कृतवन्तः । सः आदिवासि-यवनबालेभ्यः शालायाः निर्माणमपि कारितवान् । पौढशिक्षणस्य प्रोत्साहकः सः पुस्तकालयानां स्थापनाम् अकरोत् । तस्य शिक्षणक्षेत्रे बहु योगदानं आसीत् । कलाप्रोत्साहनायापि सः भारतीयराज्ञेषु आदर्शः आसीत् ।

महाराजसयाजीराव-III
महाराजसयाजीराव-III
जन्मतिथिः ११ 'मार्च्' १८६३
"https://sa.wikipedia.org/w/index.php?title=सयाजीराव_गायकवाड&oldid=358657" इत्यस्माद् प्रतिप्राप्तम्