माउसी मा' मन्दिरम्
माउसी मा' मन्दिरम् ( माउसी मा' देउल तथा अर्धशनिमन्दिरम् इति नाम्ना अपि ज्ञायते ) पुरीनगरस्य एकं प्रमुखं मन्दिरम् अस्ति। माउसी नाम मातुः भगिनी इति। पुरी-गुण्डिचामन्दिरतः जगन्नाथमन्दिरं प्रति गमनसमये बालागण्डीसमीपे वामभागे एतत् मन्दिरं विराजते । अस्य स्थानस्य संस्थापकः देवी माउसी मा' (अर्धाशनी) अस्ति या जगन्नाथस्य मातुः भगिनी नाम जगन्नथस्य मातृश्वसा इति प्रसिद्धा अस्ति । पुरा बडदाण्डस्य मध्यभागे भगवतः जगन्नाथस्य स्नानार्थम् एका नदी आसीत्। सा नदी माउसी मा' मन्दिरतः पूर्वे आसीत्। जनाः तां बलवत्तस्य गण्डि इति वदन्ति स्म। इतः बलगण्डि इति नाम आगतम्। गुण्डिचागमनसमये तत्र नद्याः पार्श्वे देवाः आदौ किञ्चित् विश्रामं स्वीकृत्य नौकायां नद्याः अपरपार्श्वं गत्वा अपरेस्मिन् रथे उपविश्य अग्रे गच्छन्ति स्म। पुनः प्रत्यावर्तनसमये माउसी मा' मन्दिरस्य सम्मुखे स्थित्वा ततः पोडपिठा (किञ्चन मधुरभोजनम्) खादित्वा ते देवाः मन्दिरं प्रति गच्छन्ति।
माउसी मा' मन्दिरम्
सम्पादयतुमाउसी मा माता सुभद्रा इव दृश्यते। देव्याः प्रतिमा कृष्णशिलातः निर्मितः अस्ति । मातायाः भुजाद्वयं भवति छायादेवी तथा मायादेवी। मातुः मुखं सुभद्रायाः मुखवत् दृश्यते। अस्य मन्दिरस्य स्थितेः विषये वदामः चेत् एतत् मन्दिरं जगन्नाथमन्दिरतः प्रायः २ कि.मि. दूरे तथा गुण्डिचामन्दिरतः १ कि.मि. दूरे शोभते।