मानवस्य अन्नपचनमार्ग:


मानवस्य मुखे स्थापितम् अन्नम् -
मुखत: कण्ठनाडीं गच्छति।
कण्ठनाडीत: आमाशयम् अवतरति।
आमाशयत: ग्रहणीं प्राप्नोति।
ग्रहणीत: लघ्वन्त्रं याति
लघ्वन्त्रत: आरोहि-बृहदन्त्रं आरोहति।
आरोहि-बृहदन्त्रत: अनुप्रस्थ-बृहदन्त्रं प्रविशति।
अनुप्रस्थ-बृहदन्त्रत: अवरोहि-बृहदन्त्रं सरति।
अवरोहि-बृहदन्त्रत: उत्तरगुदं व्रजति।
उत्तरगुदत: अधरगुदम् एति।
अधरगुदत: बहि: निष्क्रामति ।

मानवशारीरक्रिया: