॥मायारघुनाथडोंग्रे॥ जनकः रघुनाथडोंग्रे ग्रामःगेगयन् उपमण्डलम्-शहपुर मण्डलम्- ठाणे राज्यम्- महाराष्ट्रम् मुम्बयी महानगरस्य उत्तरदिशि शहापुर-उपमण्डलम् अस्ति ।ठाणे अस्य मण्डलम्। अस्मिन् मण्डले एव गेगयान् इति ग्रामे रघुनाथ डोंग्रे कृषिकार्ये निरतः । तस्य विशालः कुटुम्बः । रघुनाथस्य पत्नी बाबायी ।दम्पत्योः त्रयः पुत्राः द्वे पुत्र्यौ च सन्ति । कनिष्ठः पुत्रः पदव्यर्थम् अध्ययनं कुर्वन् आसीत् । द्वयोः पुत्र्योः मध्ये ज्येष्ठा तावात् मायारघुनाथडोंग्रे। अस्याः जन्मदिनाङ्कः- १०-४-१९७५ माया यद्यपि स्त्री तथापि धृतिमती । अहं स्त्री एतत् कार्यं मया न शक्यते इति भावना एव नासीत् तस्याः। अतीवकठिनानि कार्याणि अपि सा धैर्येण करोति स्म । स्वीकृतं कार्यं मध्ये न त्यजति स्म । कृषिकार्यं भवतु अथवा गृहकार्यं भवतु सा कृत्वा एव विरमति स्म । गृहसदस्याः अपि तां "भवती नामानुगुणं शक्तिमती” इति वदन्ति स्म। माया अध्ययने अपि चतुरा । विलम्बेन शालाप्रवेशः अभवत् अतः तस्याः मस्तिष्कम् अन्येषां अपेक्षया पक्वतां गतम् आसीत् । तस्याः वयसः कृते ते पाठाः सुलभग्राह्याः आसन् । सा पाठस्य सर्वान् अंशान् सुलभतया अवगच्छति स्म। अतः सा अध्ययने अग्रस्थानीया आसीत्। ठाणेमण्डलं पश्चिमघट्टप्रदेशे निम्नस्थाने अस्ति । अत्र अन्तर्जलं ५-६ पादपरिमिते एव स्थाने लभ्यते । श्रीरघुनाथडोंग्रेवर्यस्य गृहस्य पुरतः एव एकः कूपः। सः पञ्चपादपरिमितगभीरतायुक्तः। तत्र जलमासीत् चतुष्पादपरिमितम्। तस्य वितर्दिः निर्मिता नासीत् । १९८७ तमवर्षस्य जूनमासस्य षष्ठे दिनाङ्के तस्य कूपस्य समीपस्थे क्रीडाङ्गणे मङ्गळारघुनाथडोंग्रेदम्पत्योः पुत्रः उमेशः तथा श्रीमतः विठ्ठलतुकाकारामस्य पुत्रः चतुर्वषीयः मुखेशःच क्रीडतः स्म । क्रीडन् उमेशः कूपस्य समीपम् आगतः। कूपस्य खननानन्तरं मृत्तिकां तटे एव स्थापितवन्तः आसन् । सायम् चतुर्वादनसमयस्य सूर्यस्य प्रकाशः तस्य शरीरस्य उपरि पतितः , तस्य प्रतिबिम्बं कूपजले दृश्यते स्म । तत् प्रतिबिम्बं सुस्पष्टम् आसीत्। तादृशं प्रतिबिम्बं सः कदापि न दृष्टवान् । सः चिन्तितवान् यत् तत् अपूर्वमिति। मित्राय दर्शयामि इति चिन्तयन् मुखेशम् आहूतवान्। कूपात् जलोन्नयनसमये जलं परितः पतित्वा आर्द्रत्वात् तत्र स्खलनं भवति स्म। उमेशः न ज्ञातवान् यत् यदि 'अहं तत्र पदं स्थापयामि पादस्खलनेन कूपे पतेयम्’ इति । प्रतिबिम्बस्य आकार्षणात् तत् पश्यन् उमेशः अग्रे पदं स्थापितवान्। मुखेशस्य आगमानात् तथा पूर्वमेव पादस्खलनात् स कूपे पतितः। एतद् दृष्ट्वा मुखेशः भयेन गृहं धावितवान् । तस्मिन् समये स्वगृहस्य पुरतः स्थितवती माया तद्दृष्ट्वा दुःखिता जाता । परितः कोऽपि नासीत् । विलम्बः कृतः चेत् बालः जले निमज्य मृतः भवेत् इति साः धावन्ती जलं प्रविश्य बालं स्वहस्तद्वयेन उपरि स्वीकृतवती। कूपे जलं तावत् स्वदेहस्य यावद् औन्नत्यम् आसीत् तावदेव जलं कूपे आसीत् । पादाग्रेण जले स्थितवती तथापि मुखे नासिकापुटे च जलं पूरितं भवति स्म । तत्र पङ्कः अपि आसीत् । अतः स्खलनं भवति स्म। बहुकालं स्थातुम् असमर्था अभवत् । सा ज्ञातवती यद् जलपूरणम् अपायस्य सूचना एव । स्वहस्तपादाः भग्नाः भवेयुः तथापि अहं बालस्य प्राणान् रक्षामि इति चिन्तितवती । स्वबलेन बालं तटस्य उपरि प्रक्षिप्तवती । कूपस्य तटं गृहीत्वा उद्बन्धनस्थितौ स्थितवती । कूपम् उभयतः भित्तौ स्वपादौ स्थापयन्तः हस्ताभ्यां भित्तिम् गृह्णन्तः कूपतलात् उपरि आगच्छतः कूपकारान् एषा दृष्टवती आसीत् । कोऽपि साहाय्यार्थं नागतवान् । माया चिन्तितवती अहमपि किमर्थं कूपकाराः इच कूपस्य उपरि न चलामि इति । सा प्रयत्नम् अपि कृतवती। पाणिपादस्य साहाय्येन यथाकथञ्चित् उपरि आगतवती । तदा मुखेशात् ज्ञातविषया उमेशस्य माता आक्रोशनं कुर्वती तत्र आगता । स्वप्राणान् अविगणय्य कूपं प्रविश्य उमेशस्य प्राणान् रक्षितवतीं मायां प्रति कार्तज्ञ्यं प्रकटितवती। उमेशस्य मातुः आक्रोशनं श्रुत्वा अन्ये अपि कूपस्य समीपम् आगतवन्तः। मायायाः करुणाधैर्यसाहसादिगुणान् प्रशंसितवन्तः। “ माया कूपजले अवगाह्य उत्क्रामन्तं बालं रक्षितवती ” इति वार्ता सर्वत्र प्रसृता । पत्रिकासु अपि एषा प्रकटिता । एतस्याः साहसं ज्ञात्वा रायगडस्य सेनासंस्थायाः जनाः, शहापुरस्य डा॥ बसवन्तः, जनशिक्षणविद्यामन्दिरस्य जनाः, आदर्शमित्रमण्डलीजनाः, शहापुरस्य पञ्चसमितिः च एतस्याः सम्माननं कृतवन्तः। अमूल्यानि वस्तूनि अपि दत्तवन्तः। अग्रसेनायाः अध्यक्षः श्रीराजारामसाल्विः एतस्यै पञ्चशतं रूप्यकाणि दत्तवान् । भारतस्य बालकल्याणमण्डली एतस्याः साहसं परिगणय्य राष्ट्रसाहसप्रशस्त्यर्थं एतां चितवती। २५-१-८८ तमे दिने देहल्यां एतस्यै राष्ट्रसाहसप्रशस्तिं पदकं अन्यानि च उपायनानि दत्त्वा सभाजितवन्तः। यदा एषा प्रशस्तिं स्वीकृत्य देहलीतः आगतवती तदा स्वोपमण्डलस्य बालिका मण्डलस्य कीर्तिं वर्धितवती इति हेतोः ठानेपुरसभा अपि अस्याः राङ्कवं आच्छाद्य सम्माननं पारितोषिकाणि दत्त्वा सभाजितवती । इदानीं एषा जीवनशिक्षणमन्दिरे षष्ठ्यां कक्ष्यायां पठन्ती अस्ति । एषा उत्तमा छात्रा इति ख्याता । एतस्याः जनकः इच्छति एषा पदवीधारिणी भवतु इति । ""

"https://sa.wikipedia.org/w/index.php?title=माया_डोंग्रे&oldid=406493" इत्यस्माद् प्रतिप्राप्तम्