मुकेशः (जीवितकालः क्रि.श. १९२३तमवर्षस्य जुलै २२दिनाङ्कतः क्रि.श. १९७६तमवर्षस्य अगस्ट् २७दिनाङ्कपर्यन्तम् ) हिदीभाषायाः चलच्चित्रजगतः प्रसिद्धः नेपथ्यगायकः । विशेषतः अस्य गानं हृदयसंवादि भवति । भारतस्य हिन्दीचलच्चित्रक्षेत्रे अस्य कालः नाम क्रि.श.१९५०तमवर्षस्य अनन्तरकालः सुवर्णयुगम् इति सङ्गीताभिमानिभिः उक्तः । मन्ना डे, मोहम्मद रफी, तलत् महमूदः इत्यादिषु तत्कालीनख्यातगायकेषु अग्रगण्यः स्वरसाम्राट् मुकेशः आसीत् । एषः द्विशताधिकचलच्चित्राणां गीतानि गीतवान् । चलच्चित्रगीतानि अतिरिच्य एषः भावगीतानि, शेर्गीतानि, भक्तिगीतानि इति अन्यागीतानि अपि गीतवान् । हिन्दीमहाकवेः तुलसीदासस्य रामायणम् अपि अनेन गीतम् अतीवजनप्रियम् अस्ति ।

मुकेश

बाल्यं वैवाहिकजीवनं च

सम्पादयतु

क्रि.शा.१९२३तमे वर्षे जुलै मासस्य २२दिनाङ्के पञ्जाबरज्यस्य मध्यमवर्गस्य लघुकुटुम्बे अजायत । देहल्याः अभियन्तृविभागे कार्यं कुर्वाणस्य लाला जोरवर् चन्द मथुरस्य दशापत्येषु षष्टः मुकेशः अस्य माता चान्द राणी इति । अस्य पूर्णं नाम मुकेश चन्द्र माथुरः देहल्यां दशमकक्ष्यापर्यन्तम् अध्ययनं कृत्वा तत्रस्थे सार्वत्रिककर्मकरविभागे (PWD) सहायकसर्वेक्षकरूपेण ७मासकालं कार्यं कृतवान् । मुकेशः क्रि.श.१९४६तमे वर्षे सरला त्रिवेदी इत्येषा अनुरागेण परिणीतवान् । एतां स्थलीयाः बची बहन् इति सम्बोधयन्ति स्म । एषा गुजरातीब्रह्मणस्य पुत्री । कुन्तु विवाहकले एतस्य मुकेशस्य निश्चितः अयः स्वीयं गृहं वा नासीत् । तदानीन्तनकाले चलच्चित्ररङ्गस्य वृत्तिम् अनैतिकः उद्योगः इति जानानां भावः आसीत् । एतादृशपृष्ठभूमौ प्रेमिणौ कुटुम्बतः दूरं गत्वा आर्.डि.माथुर् इत्यस्य सहाय्येन मुम्बैप्रदेशस्य कान्दिवलिमन्दिरे विवाहविधिं समपूरयताम् । सर्वविधकष्टकार्पण्यानि अनुभवन् अपि जयशाली भूत्वा स्वस्य ३०तमं विवाहवर्षिकोत्सवम् आचरितवन् । एतददन्तनरं क्रि.श. १९६७तमे वर्षे जुलै मासस्य २७तमे दिने लता मङ्गेश्करःइत्यनया प्रसिद्धगायिकया सह सङ्गीतकर्यक्रमान् प्रदर्शयितुम् अमेरिकसंयुक्तसंस्थानम् अगच्छत् । मुकेशसरलादम्पत्योः रीटा, नितिन्, नलिनी, मोह्नीश्, नम्रता, नील्, इति षट् अपत्यानि आसन् ।

आरम्भिकपाठः

सम्पादयतु

कश्चित् सङ्गीतशिक्षकः मुकेशस्य गृहम् अगत्य तस्य सहोदरीम् पाठयति स्म । पार्श्वप्रकोष्ठे स्थितः मुकेशः तत्सर्वं श्रुत्वा पश्चात् अभ्यस्यति स्म । एतत् दृष्ट्वा सङ्गीताध्यापकः तस्मिन् मुकेशे भविष्यतः गायकम् अभिज्ञाय स्वस्य सहोदरं परमेश्वरीदासम् अस्य सङ्गीगुरुमकरोत् । तत्पश्चात् मुकेशः यदा देहलीनगरे उद्योगी अभवत् तदा रहसि केषाञ्चनचलच्चित्राणां गानानां ध्वनिमुद्रणम् अकरोत् । तदानितने काले एव मुम्बैनगरं गत्वा चलच्चित्राभिनेता भवितुं चिन्तितवान् अपि । मूकेशं सहोदर्याः विवाहमहोत्सवं गायन्तं दृष्ट्वा तस्य कश्चिद्बन्धुः मोतीललः एतं मुम्बैनगरं नीतवान् । मूकेस्य स्वस्य गृहे एव वासव्यवस्थां सङ्गीतपाठम् अपि प्रकल्पितवान् ।

सैगलस्य सम्प्रर्कः

सम्पादयतु

तदानीन्तनकालस्य प्रसिद्धः अभिनेता गायकः च कुन्दन् लाल् सैगल् इत्याख्यातः कदाचित् मोतिलालस्य गृहस्य पुरतः गच्छन् सुश्राव्यस्वरेण आकृष्टः अस्य गृहं प्रविष्टवान् । प्रथमाट्टे उपविश्य मुकेशस्य गानं शृण्वन् मोतिलालः 'दिहलीतः चलच्चित्ररङ्गे कार्यम् अन्विषन् आगतः' इति सैगलाय मुकेशस्य परिचयं कारितवान् । एषः चलच्चित्रगाने भविष्यति मम स्थानमारोहति इति सैगलः भविष्यवाणी अवोचत् ।

प्रथमावकाशः

सम्पादयतु

क्रि.श. १९४१तमे वर्षे सैगलस्य कश्चित् वयस्यः न्याषनल् स्टुडियो स्वामी ताराहरीशः " निर्दोष् " इति हिन्दीभाषाचलच्चित्रस्य निर्माणस्य सिद्धतायाम् आसीत् । सैगलस्य वचानानुसारेण ताराहरीशः मुकेशं तस्य चलच्चित्रस्य नायकं गायकं चाकरोत् । सिण्डरेल्लयाः कथा इव विमात्रा द्वभ्यां सहोदरीभ्यां हिंसितायै कथानायिकायै नवजीवनं दातुः धनिकयुवकस्य भूमिकां मुकेशः निर्वहति । नलिनी जयवन्त इति ख्यातनायिकायुक्तम् एतत् चलच्चित्रं यशस्वि अभवत् । मुकेशस्य कण्ठेन " दिल् ही बुझा हुआ हो तो " इति गानं जनानां कर्णेषु अनुरणति स्म मुखे खेलति स्म । अनया ख्यात्या रणजित् मूविटो इति समवाये वर्षत्रयं कार्यं कर्तुम् आह्वानं प्राप्तवान् । तेषु त्रिषुवर्षेषु मुकेशः अनेकेषु चलच्चित्रार्थं कार्यं कृतवान किन्तु कानिचन एव लोकार्पितानि । तानि अपि धनादानविषये सफलानि न अभवन । तत्कालीनप्रसिद्धाभिनेत्र्या सह सुख दुःख् इति चलच्चित्रे खलप्रेम्णः भूमिकां कृत्अवान् । करण दिवानस्य नायकत्वं नलिनी जयवन्तस्य नायिकात्वयुक्तं मुकेशस्य पोषकभूमिकायुक्तम् आदब् अर्ज़् चलच्चित्रं परिगण्यं चित्रम् । अस्मिन् समवाये वर्षत्रयं सम्पूर्य नेपथ्यगानस्य विषये अधिकं लक्ष्यं दत्तवान् । क्रि.श.१९४२-४४तमवर्षयोः "मूर्ति ", " उस् पार् " इत्यादिचित्राणां युगलगीतानि गीतवान् । तत्पश्चात् क्रि.श.१९४५तमे वर्षे "पहली नज़र् " चित्रे " दिल् जल्ता है तो जल् ने दे " इति गानं गीतवान् । अनिल् विश्वास इति ख्यास्वरसंयोजकस्य निदेशकत्वे दर्बारी रागम् अनुसृत्य रचितं गीतं मुकेशस्य चित्ररङ्गंप्रवेशस्य कारणिकस्य मोतिलालस्य च धर्मकर्मसंयोगः इति चित्रीकृतम् । गानम् अपि बहुविश्रुतम् अभवत् ।

विशिष्टा स्वशैली

सम्पादयतु

क्रि.श. १९४८तमे वर्षे "मेला ", क्रि.श.१९४९तमवर्षस्य "अन्दाज़् " चलच्चित्रे नौशादस्य सङ्गीतसंयोजने स्वीयां विशिष्टां शैलीम् निरूपितवन् । तत्रापि "अन्दाज़् " चलच्चित्रस्य "तु कहे अगर् ", "झूम् झूम् के नाचे आज़् ", "हम आज़् कहीं दिल् खो बैटे", " टूटे न दिल् टूटे न , इत्यादिषु गानेषु मुकेशस्य विशेषता दृश्यते । अस्य चित्रस्य विशेषः इत्युक्ते उपर्युक्तानि गीतानि दिलीपकुमारस्य अभिनययुक्तानि, राजकपूरस्य अभिनयार्थं महम्मद रफी गीतवान् । राजकपूरस्य गानस्वरः मुकेशः इत्येव लोके प्रथितः असीत् । क्रि.श. १९४८तमे वर्षे राजकपूरेण निर्मितात् " आग् " इति चलच्चित्रात् एतेयोः युग्मः आरब्धः । अग्रिमे वर्षे राजकपूरः शङ्करः जैकिशनः इति सङ्गीतज्ञयुग्मं स्वस्य गणे योजितवान् । अनेन अस्मिन् चलच्चित्रलोके किञ्चन नूतनयुगमेव प्रवृत्तम् । राजकपूरस्य " आवारा , श्री ४२० " इति अग्रिमचित्रयोः मूकेशस्य गानानानि न केवलं भारते रशियायां चीनायां च जनप्रियानि अभवन् ।

"आवारा "चलच्चित्रस्य पश्चात् मुकेशः अभिनये अतीव आसक्तः अभवत् । " भैरवि " इति चलच्चित्रे अभिनीतवान् । किन्तु तत् चित्रम् अपूर्णंम् अभवत् । सुरैया इत्यनेन अभिनीतं " माशुका " इति चलच्चित्रं क्रि.श. १९५२तमे वर्षे प्रदर्शितम् । रोशन् इत्यस्य सङ्गीतनिदेशनस्य एतत् चित्रम् अयशस्वि अभवत् । क्रि.श.१९५६तमे वर्षे मुकेश् फिलम्स् इति लाञ्छनस्य अधः स्वाभिनयस्य उषाकिरणः मृदुला नायिकायुक्तं " अनुरार् " इति चलच्चित्रं निर्मितवान् । अस्य सङ्गीतनिदेशनं गीतरचनम् अपि स्वयं कृतवान् । दौर्भाग्यवशात् धानादाने विफलम् अभवत् । "झूटे बन्दन् " इति चित्रनिर्माणम् उद्घुष्टवान् अपि धनाभावात् निर्मितुं नैव शक्तवान् । क्रि.श. १९५३तमे वर्षे लोकार्पितं राजकपूरस्य "आह् " इति चित्रे "छोटी सी यह ज़िन्दगानिरे " इति गीतम् अश्वरथिकस्य भूमिकाम् अभिनीय गीतवान् । एतस्मात् पश्चात् अभिनयात् विमुखः भूत्वा केवलं गायकः अभवत् ।

पुनः नेपथ्यगानम्

सम्पादयतु

किन्तु तस्मिन् काले मुकेशेन गानक्षेत्रे स्वस्थनस्य निर्मितव्यम् अभवत् । पञ्जवर्षाणि तावत् अनेन गानस्य अवकाशः न प्राप्तः । अतः आर्थिकी स्थितिः सुस्थिरा नासीत् । क्रि.श. १९५८तमे वर्षे दिलीपकुमारस्य अभिनयस्य "यहूदि " इति चलच्चित्रस्य " येह् मेरा दीवानापन् है " इति गानस्य प्रसिद्धेः पश्चात् पुनः गानावकाशः निरन्तरम् आगतः । दिलीपकुमारस्य एव "मधुमति " इति चित्रे सलिल् चौधरी इत्यस्य सङ्गीतसंयोजने गीतानि सर्वगानानि जनप्रियाणि अभवन् । पश्चात् " पर्वरिश् ", " फिर् सुबह होगी "इति चित्रस्य गानैः सह क्रि.श. १९६०तमवर्षतः क्रि.श. १९७६तमवर्षपर्यन्तम् अत्यन्तं हृद्यगीतैः मुकेशः जनमनांसि रञ्जितवान् । राजकपूरस्य सङ्गीतस्वरः इति सम्बोधितः मुकेशः मनोजकुमारस्य अभिनयार्थम् एव अधिकानि गीतवान् । अस्य अत्यधिकगीतानि कल्याणजी आनन्दजी इति युग्मसङ्गीतज्ञयोः स्वरसंयोजने एव सन्ति ।

नित्यनूतनगानानि

सम्पादयतु

मुकेशः गानस्य सन्निवेशस्य विवरणं प्राप्य तस्यां भूमिकायां परकायप्रवेशम् इव कृत्वा तस्य संवेदनं ज्ञात्वा भावम् अनुभूय गायति स्म । यथा.. क्रि.श. १९५१तमे काले प्रदर्शितास्य " अफ्साना " चलच्चित्रस्य किस्मत् बिगडी दुनिया बदली इति गीतम् । " यहूदी "चित्रस्य येह् मेरा दिवानापन् है इति गीतम् । देवर् चित्रस्य‘ बहारों ने मेरा चमन् लूट् कर् गीतम् । अपि च "आनन्द् " इति चलच्चित्रस्य " कहीं दूर् जब् दिन् डल् जाये " इति गाने मधुर्येण सह दुःखन्तर्यम् अपि अनुभोक्तुं शक्यते । यथा चित्रस्य नायकः वदति दुःखे अपि सौन्दर्यं अस्ति ।

गानवैविध्यम्

सम्पादयतु

न केवलं शोकभरितानि अवक्षेपयुतानि च न प्रेमनिवेदनस्य च गीतानि अनेकानि सन्ति । "मन् चली ", इति चलच्चित्रस्य "तन् मन् धन् सब् है तेरा ", देवस्य भजनम् भाव्यमानानि, "शारदा ", चित्रस्य "जप् जप् जप् रे मनवा जप् रे प्रीत् की माला " इत्यादीनि दुर्ललितगीतानि,च अनेन गीतानि । जनैः अधिकतया अश्रुतानि गीतानि यथा "ससुराल् " चित्रस्य " अप्ने उल्फत् पे जमाने का पेहरा होता " इति गीतम्, "मुहब्बत् इस्को कहते हैं " इति चलच्चित्रस्य " इत्ना हुस्न् पे हुज़ूर् न गुरूर् कीजिए ", एक् बार् मुस्कुरादो इति चित्रस्य " चेहरे पे ज़रा आञ्चल् " इत्यादीनि गीतानि वैविध्यस्य उदाहरणानि । क्रि.श. १९५९तमे वर्षे लोकार्पितस्य पिर् सुबह होगी चलच्चित्रस्य सामाजिकविडम्बनयुतानि ... गीतानि मुकेशः सामाजस्य परिदेवनायाः वेदनयायुतस्वरेण गीतवान् ।

मुकेशः स्वस्य ५३तमं जन्मोत्सवम् आचर्य क्रि.श.१९७६तमे वर्षे जुलै मासस्य २७तमे दिने लता मङ्गेश्करः इति ख्यातनेपथ्यगायिकया सह अमेरिकासंयुक्तसंस्थानस्य विविधस्थानेषु स्वस्वरमाधुर्येण सङ्गीतरसिकानां मनांसि तर्पितवान् । तत्र मिशिगन् संस्थानस्य डेट्रायिट् इति प्रदेशे वेदिकायाम् आगते सति हृदयवैफल्येन गतासुः अभवत् । पश्चात् अस्य पार्थिवशरीरं मुम्बैनगरम् आनीय अन्त्येष्टिं समाचरन् । एतदग्रिमे वर्षे तस्य कृतकर्माणां "दर्म् वी, अमर् अक्बर् अण्टोनी, खेल् खिलाडी का, चान्दी सोना," इत्यादीनि चलच्चित्राणि लोकार्पितानि । क्रि.श> १९७८तमे वर्षे अस्य स्वरयुक्तानि "आहुति , तुम्हारी कसम्, सत्यं शिवं सुन्दरम् " चलच्चित्राणि प्रदर्शितानि । एतत्पश्चादपि क्रि.श.१९९७तमवर्षपर्यन्तम् अपि अस्य पूर्वे एव गानमुद्रिकायुक्तानि चलच्चित्राणि प्रदर्शनम् प्राप्तानि । अस्य स्वरयुक्तम् अन्तिमं चित्रं चान्द् ग्रहण् इति ।

मुख्याः जीवनघटनाः

सम्पादयतु
  • क्रि.श.१९२३तमे वर्षे - जननम् ।
  • क्रि.श.१९४०तमे वर्षे - देहल्याः एच्.एम्.वि.ध्वनिमुद्रणालये प्रथमगानमुद्रणम् ।
  • क्रि.श.१९४१तमे वर्षे - अस्य अभिनययुक्तं प्रथमचलच्चित्रं "निर्दोष् " लोकार्पणम् ।
  • क्रि.श.१९४५ तमे वर्षे - पेहली नज़र् चित्रस्य " दिल् जल्ता है तो जलने दे " ।
  • क्रि.श.१९४६तमे वर्षे - सरला त्रिवेदी इत्यनया सह विवाहः ।
  • क्रि.श.१९४८तमे वर्षे - राजकपूरस्य निर्माणस्य प्रथमचित्रम् आग् इत्यस्मिन् गानम् ।
  • क्रि.श.१९५२तमे वर्षे - अस्य अभिनयस्य अन्तममं चित्रं, राजकपूरस्य आह् चित्रस्य गानं "छोटीसी यह ज़िन्दगानी रे " ।
  • क्रि.श.१९६२तमे वर्षे - बि.बि.सी.मध्ये अस्य सन्द्रर्शनस्य प्रसारः, लण्डन् इङ्ग्लेण्ड् नगरयोः सङ्गीतगोष्ठ्यः ।
  • क्रि.श.१९७४तमे वर्षे - रजनीगन्ध इति चित्रस्य " कयीं बार् योंही देखा हैं " गानार्थं राष्ट्रीयप्रशस्तिप्राप्तिः ।
  • क्रि.श.१९७६तमे वर्षे - इहलोकत्यागः ।

अनेन गीतानि चलच्चित्राणि

सम्पादयतु

प्रशास्तिपुरस्काराः

सम्पादयतु

राष्ट्रियप्रशस्तयः

सम्पादयतु

क्रि.श.१९७४तमे वर्षे "रजनीगन्ध इति हिन्दीभाषाचलच्चित्रस्य क्यी बार् योंही देखा है गानार्थम् एषा प्रशस्तिः प्रदत्ता ।

  • क्रि.श. १९५९तमे वर्षे, अनाडी चित्रस्य "सब् कुछ् सीका हम्ने " गानार्थम् ।
  • क्रि.श. १९७०तमे वर्षे, पहचान् चित्रस्य " सब् से बडा नादान् " गानार्थम् ।
  • क्रि.श. १९७२ तमे वर्षे बे इमान् चित्रस्य " जै बोलो बे इमान् की " गानार्थम् ।
  • क्रि.श. १९७६तमे वर्षे कभी कभी चित्रस्य " कभी कभी मेरे दिल् में गानार्थम् ।
"https://sa.wikipedia.org/w/index.php?title=मुकेशः&oldid=478601" इत्यस्माद् प्रतिप्राप्तम्