मुदवीडुकृष्णरायः
बाल्यम् शिक्षणञ्च
सम्पादयतुमातृभाषाविषये आदरम् अभिमानञ्च उद्दीपितवान् श्रीमान् मुदवीडुकृष्णरायः (Mudaveedukrishnaraaya) । कृष्णरायस्य मूलवंशजाः आन्ध्रप्रदेशस्य मुदवीडुग्रामस्थाः । अतः कृष्णरायः मुदवीडुकृष्णरायः इत्येव प्रसिद्धः जातः । कृष्णरायः बीदर्-मण्डलस्य बागलकोटेउपमण्डले १८७४ तमे वर्षे जुलैमासस्य २४तमे दिनाङके जन्म प्राप्तवान् । पिता हनुमन्तरायः माता गङगाबायी च । बाल्ये एव मातापितरौ दिवङगतौ इति कारणतः प्रौढशालास्तरे एव कृष्णरायः शालगमनम् अत्यजत् ।
जीवनम्
सम्पादयतुततः भारतस्वातन्त्र्यान्दोलने आत्मानम् अयोजयत् । देशस्य स्वातन्त्र्यनिमित्तं प्रचलिते आन्दोलने क्रियात्मकरूपेण भागं वहन् कारागृहवासमपि अनुभूतवान् सः । कन्नडजनाः जागरिताः भवन्तु इति धिया तेषां कृते एव कर्णाटकवृत्त इत्येतस्यां पत्रिकायां सुदीर्घकालं यावत् सम्पादकः सन् सेवां समर्पितवान् । अन्याम् एकां धनञ्जयपत्रिकाम् आरब्धवान् यस्याः द्वारा स्वातन्त्र्यान्दोलनविषये जनान् प्राबोधयत् । रायस्य ध्वनिः सिंहघर्जनम् इव पौरुषयुतं भवति स्म । अतः "कर्णाटकस्य गण्डुगलि” इति अन्वर्थनाम्ना विराजते स्म सः । जवहरलाल् नेहरु, चक्रवर्ति गोपालाचारी इत्यादयः तस्य समीपवर्तिनः आसन् । स्वतन्त्रभारातस्य दर्शनाय तेन प्राप्तः अवसरः तस्य सुयोगः एव । अयं महाभागः १९४७ तमे वर्षे एव दिवङगतः ।
क्न्नडसेवा
सम्पादयतुमुदवीडुकृष्णरायः कादम्बरीरचयिता नाटकरचयिता कविः भाषणकारः अनुवादकः पत्रिकसम्पादकः स्वातन्त्र्ययोधा च सन् देशस्य अभिवृद्ध्यर्थम् अविरतश्रमम् अकरोत् । एतस्य कृतयः - 'चित्तूर मुत्तिगे' (१९०५) – कादम्बरी , प्रेमभङग(१९२४) – नाटकम् । मराठिभाषातः कन्नडभाषां प्रति एतेन अनूदितानि नाटकानि अनेकानि । रङगभूम्याः कार्यक्रमेषु आसक्तः एषः कविः कन्नडरङगभूमेः उद्धाराय "भारतकलोत्तेजकसङगीतसमाज" इति एकां संस्थां स्थापितवान् । एवं बहुमुख प्रतिभान्वितः कृष्णरायः १९३८ तमे वर्षे बेलगाविनगरे प्रचलिते २४तमस्य कन्नडसाहित्यसमेलन्स्य अध्यक्षः सन् स्वस्य भाषणद्वारा कन्नडजनान् पाबोधयत् इत्येषा न उत्प्रेक्षा ।